पृष्ठम्:भामिनीविलासः.djvu/१६

एतत् पृष्ठम् परिष्कृतम् अस्ति
भामिनीविलासे

अयि दलद्रविन्द स्पन्दमानं मरन्दं
तव किमपि लिहन्तो मञ्जु गुञ्जन्तु भृङ्गाः ।
दिशि दिशि निरपेक्षस्तावकीनं विवृण्व
न्परिमलमयमन्यो बान्धवो गन्धवाहः ॥ ४ ॥

 अयीति । इदं हि कोमलामन्त्रणे संबोधनम् । तेन वक्तरि शिक्षकत्वेऽपि कारुण्यं व्यज्यते । दलदिति । भोः । विकसितकमलेत्यर्थः । एतेन मरन्दे स्पन्दमानतायां हेतुः सूचितः । भृङ्गा भ्रमराः, न तु हंसाः तेन क्षुद्रत्वादि द्योत्यते । तव त्वत्संबन्धिनमित्यर्थः । एवं च भृङ्गेष्वर्थमात्रलोलत्वं ध्वन्यते। स्पन्दमानं किंचित्स्रवमाणम् । तेन मयि भूयः संपद्यते' ततो भक्षयन्तु नाम ये केचन यथेच्छमित्यौदासीन्यव्युदासः । मरन्दं मकरन्दम् । किमपि कथंचिदपि । एतेन स्वामित्वाभावः सूचितः । लिहन्तः । आखादयन्तः सन्त इत्यर्थः । एवं च यावदर्थमेवैते मधुरं भाषन्ते तदूर्ध्वं तु स्वप्तेऽप्येते नैव गोचरीभविष्यन्तीत्यनुचितपात्रत्वं तेषु व्यज्यते । मञ्जु मनोज्ञम् । ‘मञ्जु मञ्जुलम्' इत्यमरः । क्रियाविशेषणमिदम् । मनोहरं यथा स्यात्तथा गुञ्जन्तु गुञ्जारवाख्यकर्णजापं कुर्वन्त्वित्यर्थः । एतेनातिनीचत्वं तेषु ध्वन्यते । उक्तं हि महाभारते-- ‘सुलभाः पुरुषा लोके सततं प्रियवादिनः । अप्रियस्य च पथ्यस्य वक्ता श्रोतापि दुर्लभः ॥” इति । न च सर्वेऽप्येवमेवेति पूर्वपद्याशयोपदेष्टुरस्य तथात्वाभावादित्याह-- दिशि दिशीत्युत्तरार्धेन । दशदिशास्वपीत्यर्थः। एतेनाचिन्त्यशक्तिः सूचिता । तावकीनं त्वत्संबन्धिनं परिमलं सुगन्धं विवृण्वन्विशदयन् । ‘वितन्वन्' इति पाठे विस्तारयन्नित्यर्थः । किं लोभेन, नेत्याह–- निरपेक्ष इति । एतादृशोऽयं प्रत्यक्षो गन्धवाहः पवनाख्यो बान्धवः सखा अन्य एव अलौकिक एवास्तीति संबन्धः । तस्मादेतदादरणमेव करणीयमिति तात्पर्यम् । अत्रोदात्तो नायकः । शान्तो रसः भेदकातिशयोक्तिरप्यलंकारः। मालिनी वृत्तम् । तदुक्तम्-‘ननमयययुतेयं मालिनी भोगिलोकैः' इति ॥

 एवं जीवनैकनिर्वाहार्थं कंचिदुपागतमर्थिनं नैवावजानीयादिति कुटजान्योक्या द्योतयति समुपागतवतीत्यार्यावृत्तविशेषेण--

समुपागतवति दैवादवहेलां कुटज मधुकरे मा गाः ।
मकरन्दतुन्दिलानामरविन्दानामयं महामान्यः ॥ ५॥

 समुपेति । रे कुटज । नवकुटजकदम्बामोदिनो गन्धवाहाः' इति भर्तृहरेः, ‘उन्मीलन्ति कदम्बानि स्फुटन्ति कुटजद्रुमाः' इति कुवलयानन्दकारिकायाश्चोक्तेः