विषये प्रवृत्तिरनुपादेये स्वानिष्टविषये निवृत्तिश्च तत्तज्ज्ञानमन्तरा कथं भूयात् । तस्मादुकव्याख्यानं युकमेव । एवं दीप्तिवाचिभ्यां रुचिभाःपदाभ्यां द्विरुकिरपि प्रत्युक्ता। एतादृश्या भासा खरूपभूतखप्रकाशचितेत्यर्थः । तथा च श्रूयते-- ‘तमेव भान्तमनु भाति सर्व तस्य भासा सर्वमिदं विभाति' इति । एतेनेदं- प्रत्ययालम्बनखेन तस्य नित्यापरोक्षं द्योतितम् । भुवनं विश्वम् । अभितः सर्वावस्थावच्छेदेन भासत इति संबन्धः । एवमहंप्रत्ययालम्बनखेनापि तस्य नित्यप्रत्यक्षवं संक्षिपति--सर्वेषामपीति द्वितीयपादेन । यद्यस्मात्कारणात् ।। हेतुरयं प्रागपि योज्यः । सर्वेषामपि संपूर्णजीवानामपि यः पूर्वोक्तविष्णुः । अहमिति प्रत्ययालम्बनमहंवृत्तिस्फुरणाश्रयः । अस्तीति शेषः । चः समुच्चये । तमपि विष्णु व्यापकं यावदृश्यप्रकाशकं परमात्मानमित्यर्थः । खेति । खहृदयानि खान्तःकरणानि । “अहंवृत्तिरिदंवृत्तिरित्यन्तःकरणं द्विधा । विज्ञानं स्यादहंवृत्ति- रिदंवृत्तिर्मनो भवेत् ॥' इत्यभियुक्तोक्तेः प्रागुक्तरीत्या बुद्धिमनोरूपाणीति यावत्। तेषां यत्तलं 'तलं स्वरूपाधरयोः' इति विश्वाद्वास्तविक रूपं निरुक्तरीतिकालम्बन- विधया आधारो वा अद्वैतात्मप्रकाशस्तं न विदन्ति नैव जानन्तीति तथा । अज्ञानिन इत्यर्थः । अन्यान्ब्रह्मविदः पृच्छन्ति खया विष्णुष्टिश्चैदस्मान्संदर्शये- त्याक्षिपन्ति । अतः । शिवशिवेति खेदे । योऽन्यथा सन्तमात्मानमन्यथा प्रतिपद्यते । किं तेन न कृतं पापं चोरेणात्मापहारिणी ॥' इत्युक्तरीत्या दृक्पा- पिष्ठस्मृत्या प्रायश्चित्ते चायं नृणामन्यायः केन वर्णनीयः । लोकोत्तरखान केना- पीयन्वयः । एवं चात्युपहासः सूचितः । इह काव्यलिङ्गमेवालंकारः ॥ ततः किमेवमन्योपहासेनेति संजातानुतापः सचेतःप्रत्येव समुपदिशति--
सेवायां यदि साभिलाषमसि रे लक्ष्मीपतिः सेव्यता |
सेवायामिति । रे चेतः, वं प्राक्तनसंस्कारवशादिति सर्वत्र बोध्यम् । यदि सेवायां साभिलाषमसि तर्हि त्वया लक्ष्मीपतिरेव सेव्यतां तत एव सर्वसंपल्लाभ- संभवादिति भावः । एवं चिन्तायामित्याद्युत्तरत्रापि बोध्यम् । गजेन्द्रादेश्चिन्तो- पशमस्य तादृशोपाध्यवच्छिन्नात्मनः सकाशादेव दृष्टवादित्याशयः । आलाप