पृष्ठम्:भामिनीविलासः.djvu/१६२

एतत् पृष्ठम् परिष्कृतम् अस्ति
१५६
भामिनीविलासे

एतेन जीवन्मुक्तिः सूचिता । एतादृशे च । अस्मिन्नित्यापरोसे । आत्मेति । आत्माभिन्नं यदमृतं श्रेयो निःश्रेयसामृतम्' इत्यमराकैवल्यं तदेव सरः कासा- रस्तस्मिन्नित्यर्थः । आर्याः पूज्याः । ब्रह्मज्ञा इत्यर्थः । करटिनो गजेन्द्राः । दूरीकृ- तेति । दूरीकृतं निरस्तं कलुषं संचितक्रियमाणकर्मजातं पक्षे पङ्कजातं च यथा स्यात्तथेत्यर्थः । विगाहन्ते प्रविशन्ति खैरे विहरन्तीति योजना । अत्र रूपक- काव्यलिङ्गेऽलंकारौ ॥

 यद्येवमात्मवियैकसाध्या मुक्तिस्तर्हि कथं शास्त्रे ‘अक्षय्यं ह वै चातुर्मास्यया- जिनः सुकृतं भवति' इत्यादिनाग्निहोत्रादिकर्मणामेव मुक्तिसाधनखमुक्तं, कथं वा ‘नास्ति सांख्यसमं ज्ञानम्' इत्यादिना सांख्यादिशास्त्राणामपि ज्ञानसाधनवम- भिहितं, कथं वा ‘सितासिते सरिते यत्र संगते तत्राप्लुतासो दिवमुत्पतन्ति' इत्या- दिना प्रयागस्नानस्यापि तत्साधनता प्रतिपादितेति चेद्वाढम् । अक्षय्यशब्देन यत्किचिदापेक्षिकाक्षयवस्यैव ‘प्लवा होते अदृढा यज्ञरूपा' इत्यादिसोपपत्तिकश्रुत्य- न्तरविरोधात्तच्छ्रुतिपूर्वापरतात्पर्यपयलोचनाच विवक्षितवं वाच्यम् । एवं सांख्य- शब्देन ‘यत्सांख्यैः प्राप्यते स्थानम्' इत्यादिश्रीमद्भगवद्गीतावाक्यस्थभाष्यरीत्या- द्वैतात्मसाक्षात्कारस्यैव तत्त्वं वक्तव्यम् । सितासितश्रुतिस्तु कण्ठत एव खर्ग वक्तीति नैव चोदनाविषयः । तस्मादेतादृशाभिप्रायानभिज्ञलेन ये तत्र प्रवृत्तास्ते श्रान्ता एवेति खचेत एवं प्रतिबोधयति-

बन्धोन्मुक्त्यै खलु मखमुखान्कुर्वते कर्मपाशा-
नन्तः शान्त्यै मुनिशतमतानल्पचिन्तां भजन्ते ।
तीर्थे मजन्त्यशुभजलधेः पारमारोदुकामाः
सर्व प्रामादिकमिह भवभ्रान्तिभाजां नराणाम् ॥ १५ ॥

 बन्धोन्मुत्यै इति । मखो यज्ञो मुखमिव मुख्यो येषु तानित्यर्थः । एतादृ- शान् । कर्मेति । कर्माण्येव बन्धकलात्पशास्तानित्यर्थः । न हि बन्धकैः पाशै- बन्धोन्मुक्तिः स्वप्नऽपि संभाव्यते । एवमग्रेऽपि । अन्तरिति । चित्तशान्त्यर्थ- मित्यर्थः । मुनीति । मुनीनां जैमिन्यादिमहर्षीणां यानि शतानि तेषां मतानि सिद्धान्तजातानि तेषां यानल्पा विपुला ‘न तु श्रुतिमतस्तुर्कोऽनुसंधीयताम्' इति श्रीमद्भाष्यकारचरणाजवचनाद्यत्किंचिदेतादृशी या चिन्ता तामित्यर्थः । अशु- मेति । दुःखाब्धेरियर्थः । पारे परतीरम् । आरोढुकोमा आरोढुमधिगन्तुं