पृष्ठम्:भामिनीविलासः.djvu/१६३

एतत् पृष्ठम् परिष्कृतम् अस्ति
१५७
शान्तविलासः ।

कामोऽभिलाषो येषां ते तथा । अत्र सर्वत्र जना इत्यध्याहारो बोध्यः । अवशिष्टं तु स्पष्टमेव । विचित्रालंकारः। तदुक्तम्-‘विचित्रं तत्प्रयत्नश्चेद्विपरीतफलेच्छया। नमन्ति सन्तत्रैलोक्यादपि लब्धं समुन्नतिम् ॥” इति ॥

 अथ पुनः संजातानुतापः किमनया भ्रान्तचर्याविचारणया ममेयतः श्रीविष्णु- चिन्तनमेव सततं ममास्त्वित्यभिलषति-

प्रथमं चुम्बितचरणा जब्बाजानूरुनाभिचक्राणि ।
आलिङ्ग्य भावना से खेलतु विष्णोर्मुखालशोभायाम् ॥ १६॥

 प्रथममिति । मे भावना चित्तवृत्तिः। प्रथमं पूर्वम् । चुम्बितेति । चुम्बितौ चरणौ यया सा तथा । विष्णोरियार्थिकम् । एतेन ‘संचिन्तयेद्भगवतश्चरणारवि- न्दम्' इत्यादिश्रीमद्भागवतोका भगवड्यानसरणिधरणाजमारभ्यैवेति द्योतितम् । ततः । जङ्केति । जङ्ग्रे च जानुनी चोरू च नाभिचक्रं चेति तथा । नाभिहृदया- नीति पाठस्तु सरल एव । अत्र द्वन्द्वश्च प्राणितूर्यसेनाङ्गानाम्” इति सूत्रेणैकवद्भावे प्राप्तेऽपि तदकरणं प्रकृतेऽद्वैतब्रह्ममात्ररूपत्वेन प्राणित्वाभावाशयादेवेवि बोध्यम् । तान्यालिङ्ग्य विष्णोर्मुखाब्जशोभायां खेलत्विति संबन्धः । एतेन प्रागुपभुक्तव- कान्तालिङ्गनचुम्बनखेलनस्मृतिप्रशान्त्युपायत्वमत्र व्यज्यते । भावनाया अपि स्त्रीत्वात्प्रकृते तत्समुचितमेव चुम्बनादीति सूच्यते । एवं चेह समासोक्तिरलंकारः ॥ एवं कृतेऽप्यभिलाषे हृदि निरुक्तकामवासनादिवशाज्झटिति भगवन्मूर्त्यप्रति- भासेन खिन्नमिवात्मानं ब्रह्मावबोधसंस्कारेण तादृशं तं पृथक्त्वेनानुसंधाय स्वयं दृङमात्रः सन्सान्त्वयन्निव भगवत्स्मृतिमाहात्म्यातिशयं व्यनक्ति-

तरणोपायमपश्यन्नपि मामक जीव ताम्यसि कुतस्त्वम्
चेतःसरणावस्या किं नागन्ता कदापि नन्दसुतः ॥ १७ ॥

 तरणोपायमिति । ताम्यसि । संतप्तो भवसीत्यर्थः । चेतःसरणौ चित्तपद्ध- त्याम्। तेन तदागमनयोग्यत्वं ध्वन्यते । रूपककाव्यलिङ्गेऽलंकारौ । अन्यत्तु सरलमेव ।।

 एवं विषयसंस्काराणामपि भगवद्ध्यानप्रतिबन्धकत्वेऽनुभूतेऽथ सर्वेषामिष्टविष- याणां संपदेकमूलकत्वेन तदभावमेवाशास्ते--

श्रियो मे मा सन्तु क्षणमपि च माद्यद्गजघटा-
मद्भ्राम्यङ्गावलिमधुरझङ्कारसुभगाः ।

भा० वि० ११