पृष्ठम्:भामिनीविलासः.djvu/१६५

एतत् पृष्ठम् परिष्कृतम् अस्ति
१५१
शान्तविलासः ।

ततो जीवननिर्वाहार्थमप्युद्योगवासनां प्रत्याचष्टे-

संपादयामि किमहं धावं धावं धरातले यद्यम् ।
अस्ति मम शिरसि सततं नन्दकुमारः प्रभुः परमः ॥ २० ॥

 संपादयामीति । अहं धरातले धावं धावं पुनःपुनर्धावनं विधाय किं संपाद- यामि किं वाग्रेऽपि संपादयिष्यामि । सुखादेर्दैवमात्रायत्तत्वाद्यर्थ एव तदर्थमायास इत्याशयः । तर्हि दैवस्यापि यत्नसापेक्षत्वात्कथं देहनिर्वाह इत्यत आह यदित्या- दिशेषेण । यद्यस्माद्धेतोः । अयं प्रत्यक्षः । एतेन सगुणसाक्षात्कारः सूचितः । सत- तमित्यादिपदचतुष्टयेन क्रमावस्य कालान्तरचिन्ताशान्तिः श्रीकृष्णस्य तु भक्तब- न्धुत्वसामर्थ्यपरब्रह्मत्वानि च योयन्ते । ‘संतापयामि किमहं धावं धावं धरातले हृदयम्' इति पाठेऽप्ययमेवार्थः फलति । अत्रापि काव्यलिङ्गादिरेवालंकारः ॥

 अथ कदाचित्पूर्वसंस्कारतरतरुण्यासक्तं मनः सोपालम्भं प्रतिबोधयति-

रे रे मनो मम मनोभवशासनस्य
पादाम्बुजद्वयमनारतमामनन्तम् ।
किं मां निपातयसि संसृतिगर्तमध्ये
नैतावता तव गमिष्यति पुत्रशोकः ॥ २१ ॥

 रे रे मन इति । मम मन इति संबन्धः । त्वम् । मनोभवेति साभिप्रायम् । मनसिजहन्तुः शिवस्येत्यर्थः । पादेति । चरणाब्जयुगम् । अनारतं सततम् । आमनन्तं वेदतः स्मरन्तम् । एतादृशं माम् । तद्वैरात्। संसृतीति । भवकुहर इत्यर्थः । किं निपातयसीत्यन्वयः । वैरशुद्ध्यर्थमिति चेत्तत्राह । नेति । एता- वता पुत्रशोकः खसुतीभूतकामदाप्रयुक्तखेद इत्यर्थः । नैव गमिष्यतीति योजना । तस्मात्कान्तासक्तिस्त्याज्यैवेति तत्त्वम् । उक्त एवालंकारः ॥

 एवमेकविंशश्लोकान्तं शान्तरसव्यञ्जनेन चतुर्थे पुरुषार्थे समुपदिष्टे सति वक्त- व्यांशस्यानवशिष्टत्वात् ‘मङ्गलादीनि मङ्गलमध्यानि मङ्गलान्तानि शास्त्राणि प्रथन्ते' इति महाभाष्यस्मृतेः समाप्तावपि मङ्गलमभ्युदयकामयावश्यकमिति धिया श्रीम- हारामायणाभिधादिकाव्यकथैकदेशकथनात्मकत्वेन वस्तुनिर्देशलक्षणं मङ्गलमाच- रन्प्रकृतग्रन्थेऽपि विनेयानुशिशित्सया संग्रथयति मरकतेत्यादित्रिभिः । तत्रा- प्यरण्यकाण्डकथैकांशसूचनं द्वाभ्याम् । तृतीयेन तु सुन्दरकाण्डस्यैव तस्येति । बोध्यम्-