पृष्ठम्:भामिनीविलासः.djvu/१६६

एतत् पृष्ठम् परिष्कृतम् अस्ति
१६०
भामिनीविलासे

मरकतमणिमेदिनीधरो वा
तरुणतरस्तरुरेष वा तमालः ।
रघुपतिमवलोक्य तत्र दूरा-
दृषिनिकरेरिति संशयः प्रपेदे ॥ २२ ॥

 मरकतेति । दूरदृषिनिकरैमुनिसंघः । रघुपतिं श्रीरामम् । अवलोक्य । अयं दूरप्रत्यक्षः । एतेन संशयसामग्री सूच्यते । मरकतेति । ‘गरुत्मतं मर- कतमश्मगर्भो हरिन्मणिः' इत्यमरान्मरकतमणयो हरिद्रत्नानि तन्मयश्चासौ मेदिनीधरः पर्वतश्चेति तथा । एतेन भगवतो रघुनाथस्य ‘यं निषेधमुखेनाह नवोढेव पतिं श्रुतिः । तं नामविलसच्छम्पं रामनीरदमाश्रये ॥' इत्यादिषु नील- वर्णस्यैव वर्णितत्वेऽपि भगवत्यास्तदा तदनुगामिन्याः सीतायास्तप्तकाञ्चनसमतनु- कान्तिसंपृक्तत्वं व्यज्यते । नीलपीतद्रव्यसंपर्के हि लोके हरिद्वर्णस्य प्रसिद्ध- त्वात् । ततः किंचिच्चाञ्चल्यं तत्रालक्ष्योत्प्रेक्षान्तरमाहुः । वेति । अथवा । एष पुरोवर्ती तरुणतरोऽतिनूतनपल्लवाढ्यः । एतादृशस्तमाल एतन्नामकः कश्चित्ता- पिच्छत्वेन कोशादौ प्रसिद्धो वृक्षविशेष इत्यर्थः । एतादृशस्तरुवृक्षोऽस्ति किमिति संशयः संदेहो द्विकोटिको बोधः प्रपेदे प्राप्त इत्यन्वयः । तत्र यदा सीताकान्ति- संपर्कस्तदाद्यकोटियंदा तदभावः पाणिचाञ्चल्यं च तदान्त्यकोटिरिति तत्त्वम् । अत्र संदेहालंकारः ॥

तरणितनया किं स्यादेषा न तोयमयी हि सा
मरकतमणिज्योत्स्ना वा स्यान्न सा मधुरा कुतः ।
इति रघुपतेः कोयच्छाया विलोकनकौतुकै-
वनवसतिभिः कैः कैरादौ न संदिदिहे जनैः ॥ २३॥

 तरणीति । वनेति । वननिवासिभिः । कैः कैर्जनैः । रघुपतेः श्रीरामस्य । कायेति । ‘छाया सूर्यप्रिया कान्तिः' इत्यमराच्छरीरकान्तीक्षणकुतूहलैः सद्भिरि- त्यर्थः । आदौ प्रथमम् । एषा पुरोवर्तिनी । तरणीति । तरणिः सूर्यस्तस्य तनया कन्या यमुना यात्किम् । नीलवर्णत्वात्तत्र कालिन्दीत्वसंभवेऽपि तोयमयत्वाभावा- नेदमित्याहुर्नेत्यादिना । हिर्हेतौ । यस्मात्सा यमुना तोयमयी । इयं तु न तथेति हेतोः प्रागुफकल्पना न नैव संभवतीति संबन्धः । एवमेव कल्पनान्तरं कृत्वीपि निराकुरित्याह–मरकवेत्यादिद्वितीयपादेन । 'ज्योत्स्ना सचन्द्रनक्षत्ररात्रौ चन्द्रा-