पृष्ठम्:भामिनीविलासः.djvu/१६८

एतत् पृष्ठम् परिष्कृतम् अस्ति
१६२
भामिनीविलासे

 भूतिरिति । नीचगृहेषु म्लेच्छाद्यधमतमसद्मवित्यर्थः । भूतिरैश्वर्यसंपत्तिः । तथा विप्रसदने ब्राह्मणानां गृहे दारिद्रयकोलाहलो दारिद्येणान्नाच्छादनादेरपि शून्य- त्वेन यः कोलाहलो बालानां रोदनादिकलकलशब्द इत्यर्थः । “कोलाहलः कल- कलः' इत्यमरः । हन्तेदि खेदे। सतां साधूनां नाशः शीघ्रमेव मृत्युः । अल्पा- युटुमिति यावत् । एवमसत्पथजुषां कुमार्गगामिनाम् । शतानां शतम् । असंख्या- तमित्यर्थः । अतिशयोक्तिरियम् । यद्वा “समानाम्' इत्येव पाठः । तथा च ‘हायनोऽस्त्री शरत्समाः' इत्यमराद्वर्षाणामित्यर्थः । शतं शतायुर्वै पुरुषः' इति श्रुतेस्तेषां पूर्णायुष्ट्वामिति यावत् । हे जगदीश परमेश्वर, एवं विश्वनियन्तुस्तव दुर्नीतिं वीक्ष्याहम् । कोपेति। क्रोधानलज्वालाजटालोऽपि सन्नहं किं कुर्वे । न किमपि करोमीयर्थः । कुत इति चेत्तत्राह—यदित्यादिशेषेण । यद्यस्मात्कारणा- दहं दीनोऽस्मि । भवान्पुनरीश्वरोऽतिसमर्थोऽसीति संबन्धः। तस्मात्त्वयेदं चतुष्टयं नैव विधेयं तथा च मद्भन्थप्रथावश्यमेव भविष्यतीति भावः । अत्र जगदीशेश्वर- पदाभ्यां द्विरुक्तिस्तु वक्तुः कवेरतिरभसपारवश्येनानवधानादेवेति ध्येयम् । एवं चात्र नीतिवीरो रसः । काव्यलिङ्गादिरेवालंकारः ॥

 ननु त्वं किमित्येवमीश्वरमाक्षिपसि तत्तज्जीवादृष्टानुसारत एव तस्य फलदत्वा- तथा च यदि त्वत्काव्यस्याप्रसिद्धिरेव स्याचत्किं ततः सन्त्येव मानुषकविष्वपि कालिदासादीनां रघुवंशादीनि काव्यानि ततस्तैरेव तदधिकारिणां कान्तोपदेश- रीत्या धर्मादिपुमर्थतत्साधनध्वननं च भूयादिति चेत्तत्राह–आमूलादित्यादिसप्त- भिरासमाप्ति ।

आ मूलद्रत्नसानोर्मलयवलयितादा च कूलात्पयोधे-
यवन्तः सन्ति काव्यप्रणयनपटवस्ते विशङ्कं वदन्तु ।
मृद्धीकामध्यनिर्यन्मसृणरसझरीमाधुरीभाज्यभाजा
वाचामाचार्यतायाः पद्मनुभवितुं कोऽस्ति धन्यो मद्न्यः २६

 आमूलादिति । रत्नसानोमेरोः। ‘रत्नसानुः सुरालयः' इत्यमरः । मूलादा। मर्यादार्थकोऽयमाङ। मेरुमूलं मर्यादीकृत्येत्यर्थः। तथा मलयेति। मलयाचलवेष्टिता- दित्यर्थः। एतादृशात्पयोधेः क्षीराब्धेः कूलात्तीरात आ । तीरं मर्यादीकृति यावत् । एवं च सेतुसुरालयमध्यदेश इति फलितम् । काव्येति । काव्यरचनचतुरा इत्यर्थः। ‘दझे तु चतुरपेशलपटवः' इत्यमरः। वदन्त्विति पदमितिशब्दाध्याहारेण कोऽस्ति