पृष्ठम्:भामिनीविलासः.djvu/१६९

एतत् पृष्ठम् परिष्कृतम् अस्ति
१६३
शान्तविलासः ।


धन्यो मदन्य इति वदन्त्विति योजना। मृद्वीकेति । ‘मृद्वीको गोस्तनी द्राक्षा' इत्यमरः। तस्या अपि मध्यस्तस्मादपि निर्यस्तत्परिपाकात्खयमेवाविर्भवन् । न तु निष्काशितः । अत एव यो मसृणरसो माधुर्याधिक्येन कोमलरसस्तस्यापि या झरी सूक्ष्मः प्रवाहस्तस्य या माधुरी तस्या यद्भाग्यमैश्वर्य तद्भजन्ति सेवन्ते ता- स्तथा। एतादृशीनां वाचां काव्यवाणीनाम्। आचार्यताया गुरुतायाः पदं स्थानम् ।। अनुभवितुं विशदयेव (?) तथा चाहमेवोक्तपदानुभवनधन्य इति ध्वन्यते। तस्मात्के मदग्ने कालिदासाद्य इत्याशयः । एवं च युक्तैवोक्तेश्वरप्रार्थनेति रहस्यम् । अत्र कवित्ववीर एव रसः । रूपकं लुप्तोपमा चालंकारः ॥

 एवं तर्हि भवद्वाच्यपि केचिदेव किमिति सादराः, कुतों वा न सर्वेऽपीत्याक्षिप्ते, किमेतविता क्षतं प्रत्युत यावन्मनुष्येषु पशुतत्पतित्वयोर्निर्णायक श्रवणद्वारा मत्काव्य- मेव संपन्नम् , तदन्यतरनिर्णयसंदेहस्तु सहवासेनैव पराकरणीय इत्याशयेनोत्तरयति-

गिरां देवी वीणागुणरणनहीनादरकरा
यदीयानां वाचाममृतमयमाचामति रसम् ।
वचस्तस्याकण्र्य श्रवणसुभगं पण्डितपते-
रधुन्वन्मूर्धानं नृपशुरथवायं पशुपतिः ॥ २७ ॥

 गिरा देवीति । वागधिष्ठात्री भगवती । सरखत्यपीत्यर्थः । एतेन निरुपम शक्तिमत्त्वं स्वस्य सूच्यते । वीणेति । वीणायाः कच्छप्यभिधाया वल्लक्या ये गुणा- स्तन्यभिधानि सूक्ष्मसूत्राणि तेषां यद्रणनं वादनं तत्र हीनादर आसक्तिशून्यः करो हस्तो यस्याः सा तथा । एतादृशी सतीत्यर्थः । एकक्षणावच्छेदेन हि ज्ञानकर्मेन्द्रि- याभ्यां केवलाभ्यां वा तत्र केनचित्कुशलेन तत्तत्साध्ये साध्यमानेऽप्यन्यतरस्य हीनतावश्यंभाव एव । एवं च प्रकृते वक्ष्यमाणकाव्याकर्णनतस्तद्रसास्वादने करसं- चारणेन वीणावादने किंचिन्यूनतापत्तिः । अतः संपूर्णतया तदास्वादनार्थ लुब्ध- चेतस्त्वेन तस्याः करस्य स्वयमेव तत्रानादरः संपन्न इति ध्वन्यते । तेन प्रकृतका- व्यस्यालौकिकत्वं द्योत्यते । यदीयानां यत्संबन्धिनीनां वाचां प्रकृतादिकाव्यवाणी- नाम् । अमृतमयं पीयूषरूपं रसं शृङ्गारादिरसम् । आचामत्याखादयतीति संबन्धः। तस्य पण्डितपतेः । एतेन खस्य सकलशास्त्रपाटवमपि द्योतितम् । वचः काव्य- वीक्यं न तु तर्कव्याकरणादि कर्णकर्कशवाक्यम् । तत्र फलविशेषसत्त्वेऽपि सद्यः श्रवणादिसंतोषजनकत्वात् । आकर्ण्य श्रुत्वा । यो मूर्धानम् । महारम्यतममिद-