काव्यारविन्दमकरन्दमधुव्रताना- |
मद्राणीति । हे मद्वाणि मदीयभार ति । त्वम् । मात्सर्येति । असूयापरनामा परोत्कर्षासहनजन्मा तत्प्रातिकूल्यप्रवीणो मनोविकारो मत्सरः । तत्र सूर्योत्कर्षा- सहनजन्मनि दिवाभीतनिलीनत्वादावतिव्याप्तिरिति तदादिप्रवीणन्तम् । तत्रापि शिशुपालकर्तृकश्रीकृष्णनिन्दारूपे वाग्व्यापारेऽतिप्रसङ्ग इति मनोविकार इति । तस्य भावो मात्सर्यम् । तत्र मग्नं न तु गतम् । तेन पङ्कादौ मग्नवत्तस्य दुरुद्धरत्वं ध्वन्यते । एतादृशं मनो येषां तथा तेषामित्यर्थः । एतेन तत्रोपेक्षेकप्रतीकार्यत्वं व्यज्यते । एतादृशां खलानाम् । पिशुनानामित्यर्थः । अनादरेण कर्तरि षष्टी । सा तत्कर्तृकतिरस्कारेणेर्थः । सहसा स्त्रीवाभाव्याद्रीभस्येनेति यावत् । विषादं खेदम् । मा कुरु मैव भजखेति योजना । अहो कथं मया न खेदः कार्यः, प्रागुक्तसकलगुणशालिन्या अपि मे पामरैरप्येतैतिरस्कारः केवलं कमप्यपराधं विनैव कृष्णाया इव कौरवैः क्रियत इत्यत आह-काव्येत्याद्युत्तरार्धेन । काव्यानि श्रीमहारामायणादीन्येव । अरविन्दानि पद्मानि । तेन तेषां प्रसन्नत्वसरसत्वमृदु- लत्वादीनि द्योत्यन्ते । तेषां यो मकरन्दः पुष्परस इव शृङ्गारादिरसस्तत्र ये मधुव्रता इव भ्रमरा इव संसक्तत्वतदास्वादकत्वादिना मधुव्रताः सहृदयास्तेषा- मित्यर्थः । अत्र रसमधुव्रतपदाभ्यां शृङ्गारादावास्वायत्वतृप्तिजनकत्वादि सहृदयेषु तन्मात्रनिरतत्वादि च सूच्यते । तथा चेतादृशां पुरुषधौरेयाणाम् । अस्येषु मुखेषु । कति विलासान्नो धास्यसि । अपि तु वनपि विलासान्धास्यस्येवेत्य- न्वयः । अत्र ‘धास्यसितमा कियतो विलासान्' इत्यपि केचित्पठन्ति तत्र काका- श्रयणमेवोक्तार्थपोषार्थं दोष इति ध्येयम् । तस्मान्नैव भवत्या खेदः कार्य इति तात्पर्यम् । अत्रोक्त एव रसः । समासोक्तिः काव्यलिङ्गं लुप्तोपमादियालंकारः ॥
न केवलमसौ मत्काव्यश्रवणानानन्दी पशुरेव किंतु ततोऽपि नीच इति सूचयति-
मधु द्राक्षा साक्षादमृतमथ वामाधरसुधा |