पृष्ठम्:भामिनीविलासः.djvu/१७४

पुटमेतत् सुपुष्टितम्
१६८
भामिनीविलासे

 तदेव स्पष्टयति--

धुर्यैरपि माधुर्यैर्द्राक्षाक्षीरेक्षुमाक्षिकसुधानाम् ।
वन्द्यैव माधुरीयं पण्डितराजस्य कवितायाः ॥ ३१ ॥

 धुर्यैरपीति । ‘धूर्वहे धुर्यधौरेयधुरीणास्तु धुरंधराः' इत्यमराच्छ्रेष्ठैरपीत्यर्थः । एतादृशैरपि । द्राक्षेति सुधामृतम् । माधुर्यैः । पण्डितेति । कविताया इयं प्रत्यक्षप्रकृतग्रन्थगा माधुरी मधुरता वन्द्यैवास्तीति संबन्धः । रसस्त्वत्रोक्त एव । प्रतीपमलंकारः ॥

 तर्हीदं मुक्तककाव्यमेव किमिति रघुवंशादिवद्रामादिवर्णनमेव न कृतमित्याक्षेपं समाधत्ते--

दुर्वृत्ता जारजन्मानो हरिष्यन्तीति शङ्कया ।
मदीयपद्यरत्नानां मञ्जूषैषा कृता मया ॥ ३२ ॥

इति पण्डितराजश्रीजगन्नाथविरचिते भामिनीविलासे शान्तविलासश्चतुर्थः ।

 दुर्वृत्ता इति । मञ्जूषा पेटिका । एवं च मयायं ग्रन्थः काव्यग्रथनबुद्ध्या नैव कृतः । किंतु तत्तदवसरे लीलामात्रेण तानि तानि पद्यानि कृतानि । तेषां केचिद्दुर्जनास्तावन्मदीयोऽयं श्लोको मदीयोऽयं श्लोक इति विद्वत्सदःसु श्लाघनेनापहारं करिष्यन्तीति तन्निराकरणार्थमेवेति द्योत्यते । अत्राप्युक्त एव रसः । लुप्तोपमा रूपकं चालंकारः ॥

दोषं करोमि कण्ठे गुणाय किल भामिनीविलास इह ।
तेनैव सार्थको मे भूयात्प्रणयप्रकाशोऽयम् ॥
पदवाक्यमानविरहोऽप्युपयोगायैव मेऽत्र संपन्नः ।
यद्भामिनीविलासे रचितः प्रणयप्रकाशोऽयम् ॥
तमिमं वयस्य सुदृशः पश्यन्त्वनिशं ममात्र यो दोषः ।
तमपि च सुवेषयन्तु स्वात्मसुतृप्त्यै यतोऽयमारचितः ॥

इति प्रणयप्रकाशे चतुर्थः प्रमोदः ।