पृष्ठम्:भामिनीविलासः.djvu/१८

एतत् पृष्ठम् परिष्कृतम् अस्ति
10
भामिनीविलासे

र्किक इत्यर्थः । अस्मीति खेदं कदापि मा कृथाः । नैव कुर्वित्यर्थः । तत्र हेतुः अत्यन्तेत्युत्तरार्धेन । यतस्त्वमत्यन्तसरसहृदयः । रसो जलम् । पक्षे शृङ्गारादिः। तेन सहितं सरसमत्यन्तमुत्कटं हृदयमन्तःप्रदेशः । पक्षे मनो यस्य । तथा परेषां लोकानाम् । गुणेति । गुणो नीत्युपदेशादिः । पक्षे रज्जुः । तं गृह्णातीति तथा । एतादृशोऽपीत्यर्थः । अत्र काव्यलिङ्गमलंकारः । शिष्टं प्राग्वत् ॥

 ननु तत्र वनादावपि केनचिदवज्ञा कृता चेत्तदा किं विधेयमित्याशङ्क्य स्वगुणज्ञलाभसंभावनया धैर्यमेवेति कमलिन्यन्योक्त्या व्यनक्ति--

कमलिनि मलिनीकरोषि चेतः किमिति बकैरवहेलितानभिज्ञैः ।
परिणतमकरन्दमार्मिकास्ते जगति भवन्तु चिरायुषो मिलिन्दाः॥८॥

 कमलिनीति । इह पूर्वार्धे तु सरलमेव । तस्मान्मूर्खकृतावज्ञावशात्खेदो नैव कर्तव्य इति भावः । तत्र हेतुः--परिणतेत्युत्तरार्धेन । परिणतः परिपक्व एतादृशो यो मकरन्दः पुष्परसस्तस्य मार्मिकाः । मर्मज्ञ इत्यर्थः । एतादृशा मिलिन्दा भ्रमराः । स्पष्टमेव शिष्टम् । तस्माद्गुणज्ञा एव त्वद्गुणाञ्ज्ञास्यन्ति न त्वन्य इति तल्लाभार्थं धैर्यमेव धार्यमिति तत्त्वम् । अत्र खिन्ना नायिका । करुणो रसः । निरुक्त एवालंकारः । वृत्तमिदं पुष्पिताग्राभिधम् । तदुक्तम्—‘अयुजि नयुगरेफतो यकारो युजि च नजौ जरगाश्च पुष्पिताग्रा’ इति ।

 अथ महापद्यपि नीचपरिचरणं नैव कर्तव्यमिति भ्रमरान्योक्त्या व्यनक्त्यार्यावृत्तेन--

येनामन्दमरन्दे दलदरविन्दे दिनान्यनायिषत ।
कुटजे खलु तेनेहा तेने हा मधुकरेण कथम् ॥ ९ ॥

 येनेति । अमन्देति । प्रचुरमकरन्द इत्यर्थः । दलदिति विकसितकमल इति यावत् । एतेन सकलसुखसामग्री सूचिता । अनायिषत । नीतानीत्यर्थः । खल्विति तेनेत्यनेनान्वेति । तथा च तेनैव न त्वन्येन । एतेनानौचित्यं सूचितम् । मधुकरेण कुटजे प्रागुक्तद्रुम ईहा इच्छापि । हा इति खेदे । कथं तेने किमिति विस्तारितेति संबन्धः । इह विपन्नो नायकः । करुणो रसः । परिकरोऽप्यलंकारः ॥

 ननु यदि कश्चिदनेकगुणाधिकरणमपि गुण्यादिषु तुल्यदृष्ट्यैव तत्पोषकश्चेत्तत्र गुणिनो मे कथमाधिक्यं स्यादिति चेत्तत्स्तुत्यैवेति चन्दनान्योक्त्या व्यनक्त्यार्याविशेषेण--