{{block center|
उपरि करवालधाराकाराः क्रूरा भुजंगमपुंगवात् ।
अन्तःसाक्षाद्द्राक्षादीक्षागुरवो जयन्ति केऽपि जनाः ॥ १३ ॥
उपरीति । बहिः। करवालेति । करवालः खड्गस्तस्य धारा तद्वदाकारो रोषव्यञ्जकव्यक्तिविशेषो येषाम् । तत्र हेतुः-- भुजंगमेति । भुजंगमाः सर्पास्तेषु पुंगवः श्रेष्ठस्तस्मात्सर्पराजादपि क्रूराः । क्रोधना इत्यर्थः । तर्ह्यन्तरपि ते तथैव स्युरिति सर्वोत्कटत्वेनोक्ततद्वर्णनं कथम् । तत्राह-- अन्तरिति शेषेण । द्राक्षेति । मृद्वीका नामपि माधुर्योपदेशदेशिका इति यावत् । एतादृशाः केऽपि जना जयन्तीति योजना । अर्थात्तादृशा भवन्त एवेति द्योत्यते । इह निष्कपटो नायकः । शान्त एव रसः । प्रतीपमलंकारः ।
स यदि दुर्जनोपदेशादेतन मनुते चेत्तत्रोक्तामैव ‘अयि दलवू’ (१४ ) इति कमलान्योक्तिं भङ्ग्यन्तरेण पठितुं स्पष्टयति
स्वच्छन्दं दलदरविन्द ते मरन्दं |
स्वेति । विन्दन्त आस्वादयन्तः। विदधतु कुर्वन्तु । समीरणाद्वायोः। शेषमुक्तप्रायमेवाधस्तात् । प्रहर्षिणीवृत्तमिदम् । तदुकम्–नौ ज्रौ गस्त्रिदशयति प्रहर्षिणीयम्’ इति ॥
ननु स निरुक्तवाक्यं श्रुत्वा रोषं करिष्यतीति चेद्वदान्यत्वकरुणत्वादिसूचकेन पद्यान्तरेण स्तोतव्य इति द्योतयितुं तदेव सरोवरान्योक्तिघटितं पद्यं पठति--
याते मय्यचिरान्निदाघमिहिरज्वालाशतैः शुष्कतां |
यात इति । मयि । निदाघेति । ग्रीष्मकालीनोष्णरश्मिजन्यातपार्चिसहस्रैरित्यर्थः । अत एव अचिराच्छीघ्रं शुष्कतां नीरसतां याते प्राप्ते सति । असौ विप्रकृष्टा । संतापेति उक्तातपावलितरलितेयर्थः । एतादृशी । पान्थेति । पथिकपरम्परेति यावत् । कं प्रति गन्ता कं वदान्यं प्रति जीवनयाचनार्थं गमिष्यति । नैव