कमपि गमिष्यतीत्यर्थः। उत्तरार्धं तु सरलमेव । मार्गपदं सन्मार्गद्योतकम् । एवं जीवनपदमपि श्लेषेणोदकस्य प्राणनस्य च सूचकम् । जनुः । जन्मेत्यर्थः । ‘जनु र्जननजन्मानि’ इत्यमरः । तस्मादल्पसत्वोऽपि भाविसंकटप्राप्तावर्थिवैमुख्यसंभावनया पूर्वमेव क्षीयमाणतनुर्वदान्य एव धन्यो न त्वन्ये भूरिभाग्यसंपदा अपीत्याशयः । अत्र पूर्वार्धे सदयकरुणौ परार्धे धीरदानवीरौ च नायकरसौ । काव्यलिङ्गमप्यलंकारः । शार्दूलविक्रीडितं वृत्तम् । तल्लक्षणं तु प्रागेवोकम् ॥
ननु तत्राप्यसौ नैव प्रसीदतीति चेत्स्वानन्यगतिकत्वध्वननेन प्रसादमूलीभूतं तत्र स्वविषयकपरमकरुणोत्पादनमेव मीनान्योक्त्या विधेयमिति व्यनक्ति--
आपेदिरेऽम्बरपथं परितः पतङ्गा |
आपेदिर इति । हे सरः सरोवर, त्वयि संकोचं ग्रीष्मोष्मणा ह्रासमञ्चति । स्वीकुर्वति सतीत्यर्थः। पतङ्गाः ‘पतङ्गौ पक्षिसूर्ये च' इत्यमराराद्धंससारसादयः पक्षिणः परितः समन्तादम्बरपथमाकाशमार्गमापेदिरे । प्रापुरित्यर्थः । न केवलमेत एव तथा किं त्वन्येऽपीत्याह-- भृङ्ग इति द्वितीयपादेन । रसालेति । रसाल आम्रः । ‘आम्रचूतो रसालोऽसौ' इत्यमरः । ‘कुड्मलो मुकुलोऽस्त्रियाम्' इति च । अतो दीनदीनो दीनेभ्योऽनन्यगतिकेभ्यो नक्रादिभ्योऽपि दीनः । परमानन्यगतिक इत्यर्थः । मीनो मत्स्यः । नु वितर्के । हन्तेति खेदे । कतमां कां वा गतिमभ्युपैतु । तस्य त्वदुदकप्राचुर्यं विना गत्यन्तराभावान्न कामपि गतिमभ्युपैत्वित्यर्थः । तस्मादनेन त्वत्पङ्क एव विकीभूय लोकान्तरे गन्तव्यमिति भावः । एतेन त्वयायं नैवोपेक्षणीय इति व्यज्यते । अत्र करुणावेव नायकरसौ । परिकरोऽप्यलंकारः। वसन्ततिलकावृत्तम् । तदुक्तम्— ‘उका वसन्ततिलका तभजा जगौ गः' इति ॥
ननु स यदि ब्रूयात्किमेवं मदनिष्टं चिन्तयसीत्यत्र किं कार्यमिति चेत्कमलिन्यन्योक्त्या स्वस्य परहितैकनिरतत्वं व्यञ्जनमेवेति वदंस्तामेवाह--
मधुप इव मारुतेऽस्मिन्मा सौरभलोभमम्बुजिनि मंस्थाः । |
मधुप इवेति। हे अम्बुजिनि कमलिनि । एतेनोक्तनिष्टचिन्तनसंभावनारूप