पृष्ठम्:भामिनीविलासः.djvu/२३

एतत् पृष्ठम् परिष्कृतम् अस्ति
१५
अन्योक्त्युल्लासः ।

अपनीतपरिमलान्तरकथे पदं न्यस्य देवतरुकुसुमे ।
पुष्पान्तरेऽपि गन्तुं वाञ्छसि चेद्भ्रमर धन्योऽसि ॥ २० ॥

 अपनीतेति । हे भ्रमर, त्वम् । अत्र ‘मधुप-' इत्यपि पाठः । अपेति । दूरीकृतान्यसौरभ्यवार्त इत्यर्थः । अत एव देवेति । अत्रोक्तावेव नायकालंकारौ ॥

 नन्वेवमपि दुर्जनवाक्य एवासौ श्रद्दधानश्चेत्तर्हि नद्यन्योक्त्या स विबोधनीय इति ध्वनयति तामेव पठन्


तटिनि चिराय विचारय विन्ध्यभुवस्तव पवित्रायाः ।
शुष्यन्त्या अपि युक्तं किं खलु रथ्योदकादानम् ॥ २१ ॥

 तटिनीति । हे तटिनि । “तरङ्गिणी शैवलिनी तटिनी हादिनी धुनी' इत्यमरादयि नदीत्यर्थः। त्वं चिराय बहुकालमिति विचारयेति विवेकं कुर्वियर्थः । अत्र स्त्रीत्वेन संबोधनमविवेकित्वं व्यनकि । इतीति किम् । तदेवाह-विन्ध्येत्यादि शेषेण । विन्ध्याचलोत्पन्नायाः । एतेन सद्गुरुभक्त्युत्कटत्वयोग्यत्वं ।ध्योत्यते । अत एव पवित्रायास्तव शुष्यन्त्याः सत्या अपि रथ्योदकादानं रथ्यावर्तिदुर्गन्धोदकखीकरणं खलु युक्तं किमिति योजना । तत इदमनुचितमेवेति भावः । अत्र कुलीना मुग्धा नायिका । परिकरोऽप्यलंकारः ॥

 नन्वथापि सा नैव वमनुसरति चेत्तत्र वक्तव्यां बर्बुरान्योक्तिं कथयन्देशयागो हि दुर्जनादिति न्यायात्ततो वदान्यान्तरमेव गन्तव्यमिति व्यनक्ति

पत्रफलपुष्पलक्ष्म्या कदाप्यदृष्टं वृतं च खलु शूकैः ।
उपसर्पेम भवन्तं बर्बुर वद कस्य लोभेन ॥ २२ ॥

 पत्रेति । हे बबुर । ‘बाभुळ' इति देशभाषाप्रसिद्धवृक्षविशेषेत्यर्थः । पत्रेति । न केवलं गुणाभाव एव किंतु दोषपरिपोषोऽपीत्याह-वृतं चेत्यादि । शुकैः कण्टकैः । ‘शूकोऽस्त्री श्लक्ष्णतीक्ष्णाग्रे' इत्यमरः । खलु वृतं कण्टकमात्राकुलाखिलशावमित्यर्थः । कचित्‘वृतं च बत' इति पाठः ।चः समुच्चये। एतादृशं गुणहीनं दोषवन्तं च भवन्तं वयमर्थिनः कस्य वस्तुनो लोभेनोपसर्पेम त्वन्निकटे आगमनं करवामेति त्वमेव वदेति संबन्धः । तस्मादितोऽन्यत्रैव गच्छामेति तत्त्वम् । इह दुष्टो नायकः । उक्त एवालंकारः ।।

 तत्र कश्चित्वसुचेत्स्वनिर्गमनावसरे स कथमुपदेश्य इत्याशङुकथानया कोकिलान्योक्त्येत्याह--