किमु प्रथितमहिमस्वाज्ञ श्रुतः किम् । अपितु श्रुत एवेति योजना । तस्माद्युक एवायं त्वदाक्षेप इति भावः । इह संबोध्यो नायकः । शान्तो रसः। श्लेषःकाव्यलिीङ्ग चालंकारः। वसन्ततिलका वृत्तम् । तल्लक्षणं प्रागेवोक्तम् ॥
एवमाश्वास्य चतुर्विधान्यतमपुमर्थार्थिनापि दुःखमस्त्याज्य एवेअवति रहस्यं चन्द- नान्योक्तया सूचयति-
सौरभ्यं भुवनत्रयेऽपि विदितं शैत्यं तु लोकोत्तरं |
सौरभ्यमिति । हे श्रीखण्ड श्रीः खण्डेषु यस्य तत्संबुद्धौ। चन्दनस्य हि यादृशी । काष्ठखण्डदशावच्छेदेन सौरभ्यशोभोपलभ्यते न तादृग्द्वमादिदशावच्छेदेनेति सुप्रसिद्धमेव । अतो युक्रेवोक्तव्युत्पत्तिः। अयि चन्दनेत्यर्थः । तव सौरभ्यं सौगन्ध्यम्। भुवनेति । लोकत्रयेऽपि विदितं सर्वमान्यतया प्रख्यातम् । वर्तत इति यावत् । तथा शैत्यं तु संतापोपशामकत्वं तु लोकोत्तरमीकिकमेव । अस्तीत्यर्थः। किंचतव कीर्तिर्दाहादावपि परिमलपौष्कल्यख्यातिः। दिगिति । प्राच्यादिचपल विलोचनाजिरसंचारिणीत्यर्थः । भवतीति शेषः । किं तत इति चेत्तदाह--किंत्वित्यादि । तदेव स्फुटयति-इयं प्रत्यक्षा द्विजिह्वावलिः सर्पराजिस्तव कोटरेष्वनायाससंपन्नत्वात्काष्ठबिलेष्वित्यर्थः। गरलज्वालां गरलानि वान्तविषाणि तैर्या स्वनिश्वसूक्ष्माग्निना सह त्वत्काष्ठसंयोगाज्वालार्चितम् । यद्वा तान्येव ज्वालेवदाहकत्वाज्वाला ताम् । यद्वा तानि ज्वालेव ज्वला तामित्यर्थः। उज्झन्ती उद्भाव यन्ती सती ते सर्वानेव तव संपूर्णान्सुन्दरानेव रम्यानेव निरुकसौरभ्यादीन्गुणान् । धर्मानित्यर्थः। निगिरति खलु भक्षयत्येवेति योजना। तस्मादेतस्याः परिग्रहस्तव परमनाशहेतुत्वादनुचित एवेति भावः । अत्र सुन्दरपदेन गुणेष्ववश्यं संरक्षणीयत्वं द्योत्यते । इह संबोध्यनायकपक्षेऽपि कोटरपदमात्रे गौणीं वृत्तिमाश्रित्यान्तः पुरादिाहैकान्तदेशविशेषार्थकत्वमुररीकृत्यार्थान्वयो विधेयः । तद्यथा -भो देव दत्त, ते सौरभ्यं सुरभेः ‘सुगन्धे च मनोज्ञे च वाच्यवसुरभिः स्मृतः’ इति विश्वान्मनोज्ञस्य भावः सौरभ्यम् । रम्यखमित्यर्थः । शैत्यं ‘तिशीतौ कुशे तीक्ष्णे’ इति हैमात्तैक्ष्ण्यम् । तेजखित्वमिति यावत् । द्विजिह्वति । ‘द्विजिह्वौ सर्प