पृष्ठम्:भामिनीविलासः.djvu/३३

एतत् पृष्ठम् परिष्कृतम् अस्ति
२५
अन्योक्त्युल्लासः ।

सूचकौ’ इत्यमरात्परच्छिद्रसूचकपञ्जिरित्यर्थः । गरळेति । गरलमिव दुरुपदेशजातं मारकत्वाद्भरलं तेन ज्वालेव कोपाग्निजन्या या परध्वंसनेच्छा तामित्यर्थः। शेषं तूफार्थमेव । तस्मात्पिशुनवचो नैवादरणीयमित्याशयः । अत्रोपदेश्यो नायकः । करुणो रसः। श्लेषप्तोपमे अष्यलंकारौ । शार्दूलविक्रीडितं वृत्तम् ॥ एवं श्रीगुरुवाक्यं श्रुखा दुर्जनवचनश्रोतरि स्खस्मिनौदासीन्यमिवालक्ष्य तस्य सर्वत्र निरपेक्षसर्वोपकारित्वं सूचयनात्मनि तत्कारुण्यमुत्पादयति मेघान्योक्त्या--

नापेक्षा न च दाक्षिण्यं न प्रीतिर्न च संगतिः।
तथापि हरते तापं लोकानामुन्नतो घनः ॥ ३७ ॥

नापेक्षेति । हे गुरो, यद्यप्यस्यापेक्षा नास्ति । तथा दाक्षिण्यं समुद्रोदकमानीय दातृवात्खतः सामर्यमपि नास्तीत्यर्थः । शेषं स्फुटमेव । अत्र नापेक्षेत्यादि नचतुष्टयेन क्रमादुरौ लोभौद्ध्त्यरागसग्ङ्गव्युदासः सूचितः । तेनाहं नैवोपेक्ष्य इति रहस्यम्। इह पूज्यः कृपालुश्च नायकः । उक एव रसः । परिकरोऽप्यलंकारः॥अथैवं शिष्यवाक्यमाकर्यं यद्येवं तव श्रद्धा चेतर्घनुपम एवासीति कमला न्योक्तया तदुत्पत्तिस्थितिसंपत्तिगुणपलितवनतो व्यनक्ति-

समुत्पत्तिः स्वच्छे सरसि हरिहस्ते निवसनं
निवासः पद्मयाः सुरहृदयहारी परिमलः ।
गुणैरेतैरन्यैरपि च ललितस्याम्बुज तव
द्विजोत्तंसे हंसे यदि रतिरतीवोन्नतिरियम् ॥ ३८ ॥

समुत्पचिरिति । हे अम्बुज भो कमल, तत्र समुत्पत्तिः प्रादुर्भावः खच्छे निर्मले सरसि मानसादौ सरोवरे । नतु पल्वलेऽस्तीत्यर्थः । एवं निवसनमपि वसतिरपि हरिहते विष्णुपायें । तवेत्यस्तीति चाद्यन्तयोरनुबन्धनीयम् । किंचत्वं पझाया लक्ष्म्या निवासो वसतिस्थानम् । अचीति शेषः । तथा तव परिमलः सुगन्धोऽपि । सुरेति । देवमनोहर इत्यर्थः । भवतीत्यध्याहारः । एतेन गोडु ग्धादेरुत्तमस्थानजन्यत्वेऽपि ताम्रपात्रादिस्थित्या तस्य पुनस्तदितरपात्रादिगत्वे शरादियोग्यसंमेलनाभवेन लवणाद्ययोग्यसंमेलनेन वा तथा शोधितत्वादम्यादि संस्कृतवैलादिसुवासितत्वाभावेन हिड्यादि दुर्गन्धिस्वादिना वा त्याज्यमिवास्यापि निन्यजलादिना हेयत्वं व्युदस्तम् । तर्हि किमेतावन्त एवं मयि गुणाः