पृष्ठम्:भामिनीविलासः.djvu/३८

एतत् पृष्ठम् परिष्कृतम् अस्ति
३०
भामिनीविलासे

पुराणोपदेशवाक्यानि, तथाम्बुवन्मृदुतमानि कान्तासंमितकाव्योपदेशवाक्यानि, तथा नलिनवन्मृदूनि राजसंमितवेदोपदेशवाक्यानि च सतात्पर्य भृतानीत्याशयः। अत्र पाठक्रमादर्थक्रमस्य बलीयस्खन्यायेन वेदवाक्यानां प्राथमिकवं बोध्यम्। तस्य सरोवरस्य त्वं केन कृत्येन । व्यापारविशेषेणेत्यर्थः । कृतोपकारो रचितप्रत्यु पकारो भवितासीति वदेत्यन्वयः । तस्माद्धरुप्रत्युपकारो नैव कर्तुं शक्यः । किंतु तत्सेवनमात्रं ‘यावज्जीवं त्रयः सेव्या वेदान्तो गुरुरीश्वरः। पूर्वं ज्ञानाप्तये पश्च कृतनवनिवृत्तये ॥’ इति वचनात्कर्तव्यम् । न तु तत्र खपाण्डित्यप्रकटनमपी त्याकूतम् ॥

 एवमनधिकारितया सदुपदेष्टयेपि तटस्थजन एव रुष्टः स राजकुमारस्तमेव तिर स्करोति-प्रारम्भ इति भृङ्गान्योक्त्या ।

प्रारम्भे कुसुमाकरस्य परितो यस्योल्लसन्मञ्जरी
पुञ्जे मञ्जुलगुञ्जितानि रचयंस्तानातनोरुत्सवान्।
तस्मिन्नद्य रसालशाखिनि दशां दैवात्कृशामञ्चति
त्वं चेन्मुञ्चसि चञ्चरीक विनयं नीचस्त्वदन्योऽस्ति कः ॥४६॥

 प्रारम्भे इति । हे चञ्चरीक भ्रमर । वसन्तस्य प्रारम्भे । यस्य । उल्लसदिति । विकसद्वल्लरी विसर इत्यर्थः । त्वम् । मञ्जुलेति । मनोज्ञगुञ्जार यावत् । रचयन्कुर्वन्संस्तान्प्रसिद्धानुत्सवानातनोर्विस्तारितवानसीत्यर्थः । अद्य तस्मिन् । रसा लशाखिनीति । आम्रवृक्ष इत्यर्थः। न चात्र शास्त्रीत्यधिकं तस्य परिपुष्ट्यभिप्रायखात्। दैवात्कृशां पल्लववैकल्यवतीमित्यर्थः । दशामवस्थामञ्चति स्वीकुर्वंति विषये त्वं विनयं प्रश्रयं मुञ्चसि त्यजसि चेत्तर्हि त्वत्त्वत्तः सकाशादन्य इतरो नीचः कः। न कोऽपीति योजना । तस्मादेवमौद्धत्यं नैव त्वया विधेयमित्याशयः ॥

 एवं निर्भर्सनमाकर्य स तटस्थस्तावत्प्रहसन्निव तं राजकुमारं प्रति निरुक्तवाक्यं वया स्खकीयान्तःपुर एव वक्तुमुचितं नतु पण्डितमण्डल्यामिति कृष्णसारा न्योक्त्या व्यनक्ति--

एणीगणेषु गुरुगर्वनिमीलिताक्षः
किं कृष्णसार खलु खेलसि काननेऽस्मिन् ।
सीमामिमां कलय भिन्नकरीन्द्रकुम्भ-
मुक्तामयीं हरिविहारवसुंधरायाः ॥ ४७ ॥