पृष्ठम्:भामिनीविलासः.djvu/३९

एतत् पृष्ठम् परिष्कृतम् अस्ति
३१
अन्योक्त्युल्लासः ।

 एणीति । हे कृष्णसारत्वम् । गुर्विति । गुरुर्महान्स चासौ गवीश्च तेन निमीलिते तादृशे अक्षिणी नेत्रे यस्य स तथा।परमाभिमाननिमीलितलोचनः सन्नित्यर्थः।अस्मिन्काननेऽरण्ये । ‘अटव्यरण्यं विपिनं गहनं काननं वनम्' इत्यमरः । एणीति । भृगीसमूहेष्वित्यर्थः। खलु निश्चितं किं खेलसि । किमिति क्रीडखीति यावत् । किंतर्हि कार्यमित्यत आह-सीमामित्युत्तरार्धेन । इमाम् । भिन्नेति । भिन्न विदारितास्ते च ते करीन्द्रकुम्भा गजराजकपोलास्तेषां या मुक्ता मौक्तिकानि तैः प्रचुरातथा । तामित्यर्थः। एतादृशीम् । हरीति । सिंहविलासस्थल्या इति यावत् । सीमां मर्यादां कलयावलम्बयेति संबन्धः। तस्माद्विपश्चित्सदसि खया नैवैवं शक्यं बक्तुमिति तत्त्वम् । एतदारभ्य पञ्चपञ्चकान्तं वीरो रसः। धीरललितो नायकश्च ॥

 एवं तटस्थराजकुमारयोः स्वनिमित्ं विवादं श्रुत्वा पण्डितवरस्तं नृपसुतं प्रति स्वसमानेषु रोषो नैवोचित इति सूचयति– जठरेति सिंहान्योक्तिभ्याम् ।

जठरज्वलनज्वलताप्यपगतशङ्कं समागतापि पुरः ।
करिणामरिणा हरिणा हरिणाली हन्यतां नु कथम् ॥ ४८ ॥

 जठरेति । करिणां गजानां न तु मशकानामरिणा शत्रुणा एतादृशेन महावीरेण हरिणा सिंहेन। जठरस्योदरस्य ज्वलनो वह्निस्तेन ज्वलति संतप्यत इति तथा तेन । क्षुत्परितप्यता सतापीत्यर्थः। अपगतेति । अपगता निरस्ता शङ्का भीतिकल्पना यथा स्यात्तथा । पुरोऽग्रभागे न तु पश्वात् । समागतापि न चकस्मात्प्राप्ता । एतेन मौढ्यातिशयो व्यज्यते । एतादृशी हरिणाली मृगपङ्कतिः कथं नु हन्यताम् । न कथमपि मार्यताम्, किंतु पाख्यतामेवेति योजना । तस्मात्त्वयात्र तटस्थादैशान्तिरेव कार्येति तात्पर्यम् ॥

येन भिन्नकरिकुम्भविस्खल
न्मौक्तिकावलिभिरञ्चिता मही ।
अद्य तेन हरिणान्तिके कथं
कथ्यतां नु हरिणा पराक्रमः ॥ ४९ ॥

 येनेति । भिलेति । भित्र विदारिताः। मही पृथ्वी । अचिता पूजिता । तेन दूरिणा सिंहेन । अद्य हरिणान्तिके मृगनिकटे पराक्रमः कथं नु कथ्यताम् । न कथमपि कथनीय इत्यर्थः । तस्मादसमैः सह नैव वतव्यमिति भावः । ‘रोनराविह रथोद्धता लगौ’ इत्युकेरिदं तद्वृत्तम् ॥