पृष्ठम्:भामिनीविलासः.djvu/४३

एतत् पृष्ठम् परिष्कृतम् अस्ति
३५
अन्योक्त्युल्लासः ।

कोणमप्रसिदैकदेशं गतेति तथा । रहसि विद्यमानापीत्यर्थः । मुहुर्भूयः परिमलैः सुगन्धैदिंशः ककुभ आमोदयन्ती सुरभयन्ती सत्यपि तत्रापि । लवङ्गेति । 'लवङ्गं ‘देवकुसुमम्' इत्यमराद्देवपुष्पवल्लीत्यर्थः। न तु मालतीलता । एतेनोष्णत्वत्सुर भित्वाभ्यां कस्तूर्यादिवत्परमादरणीयत्वं द्योतितम् । तत्रापि ललिता नवीना न तुजीर्णा । एवं चावश्यरक्षणीयखं ध्वन्यते । हा कष्टमित्यनुपमखेदे । दावेति । दावानलेन दह्यते भस्मीक्रियत इत्यन्वयः । तस्मादिदमनुचितमेवेति भावः । अत्र तृतीयचरणेनालौकिकगुणवत्त्वं लवङ्गलतायां व्यज्यते । एवं च जगति प्रायोऽद्य गुणिनः सुदुर्लभा एव । तत्रायं त्वचिन्त्यगुणवत्त्वात्त्वया संरक्षणीय एवेति हृदयम्। । न च ‘ललितलवङ्गलतापरिशीलनकोमलमलयसमीरे’ इति जयदेवप्रयोगा दत्र ललितेत्यादिपदापहारः शङ्काः। अस्य व्यस्तवादिति । अत्र लवङ्गलतापदंस्त्रीत्वेन करुणरसपरिपोषार्थमेव । तेन करुणावेव रसनायकौ ॥

 अथ स्पष्टं तं तटस्थमेव कारुण्योद्रेकात्स्तुवनन्दनान्योक्त्या खाविषं व्यनक्ति--

स्वर्लोकस्य शिखामणिः सुरतरुग्रामस्य धामाद्भुतं
पौलोमीपुरुहूतयोः परिणतिः पुण्यावलीनामसि ।
सत्यं नन्दन किं त्विदं सहृदयैर्नित्यं विधिः प्रार्थ्यते
त्वत्तः खाण्डवरङ्गताण्डवनटो दूरेऽस्तु वैश्वानरः ॥५५॥

 खर्लोकस्येति। हे नन्दन अयि सुरोद्यान, त्वं खर्लोकस्येन्द्रलोकस्य शिखामणिःशिरोरत्नवदलंकारीभूतामित्यर्थः । तथा । सुरेति । सुराणां देवानां ये तरवस्तेषांकल्पद्रुमाणां यो ग्रामः समूहस्तस्येत्यर्थः । अद्भुतमाश्चर्यकरं धाम स्थानम् । तथा।पौ लोमीति । शचीतद्रमणयोः। पुण्येति । सुकृतपनामिति यावत् । परिणतिः रिपाकोऽसीति सत्यम् । किं तु सहृदयैः सुधीभिरिदं विधिदैवं, ब्रह्म वा नित्यं प्रार्थ्यतेत्। याच्यत इत्यन्वयः इदमिति किं तदाह-त्वत्त इत्यादिचतुर्थचरणेन । खाण्डवेति । खाण्डवमेतनामकमैन्द्रं वनं प्रसिद्धमेव । तदेव रङ्गो नृत्यभूविशेष स्तत्र ताण्डवमुद्धतनृत्यं तत्र नट इव पटुरेतादृशो वैश्वानरो दावाग्निस्त्वत्तः सकाशादूरेऽस्त्विति । तस्मादचिन्त्यमहिम्नोऽपि तवैतस्मातृपकुमाराद्भयं भातीत्यतः सावधानेन भाव्यमिति भावः । अत्र ललितो नायकः । भयानको रसः। रूपकमलंकारः । किंच खाण्डवरङगेत्यादौ रद्रौरसोऽपि परिस्फुरतीति विबुधैःध्रैर्यम्||