पृष्ठम्:भामिनीविलासः.djvu/४४

एतत् पृष्ठम् परिष्कृतम् अस्ति
३६
भामिनीविलासे

ततः स तटस्थोऽपि स्वमनोरथभङ्गदुःखं तं पण्डितं प्रति कीरान्योक्त्या व्यनक्ति--

स्वस्वव्यापृतिमग्नमानसतया मत्तो निवृत्ते जने
चञ्चूकोटिविपाटितारलकुटो यास्याम्यहं पञ्जरात् ।
एवं कीरवरे मनोरथमयं पीयूषमास्वादय
त्यन्तः संप्रविवेश वारणकराकारः फणिग्रामणीः॥ ५६ ॥

 स्वस्वेति । जने लोके । स्वखेति। स्वस्व।व्यापारसमासक्तचित्ततयेत्यर्थः। मत्तो मत्सकाशात् । निवृत्ते परावृत्ते सति । एतेनैकान्तलाभः सूच्यते ।चछ्विति । चश्चाः कोटिरग्र्ं तेन विपाटितो विदारित आरलकुट आराख्यलोहशलाकाविशिष्ट्काष्टविशेषो येन स तथेत्यर्थः । अत्र ‘विदारिताररपुटः’ इति पाठः प्रामाणिकः । अररपुटं कपाटपुटकम् । ‘कपाटमररं तुल्ये' इत्यमरः। एतादृशः सन्नहं पञ्जराद्य स्याम्युद्वीय गमिष्यामीति योजना । एवं कीरवरे शुकश्रेष्ठे । मनोरथमयं मनोराज्यै कविकारं पीयूषममृतमाखादयत्यास्वादप्रहणपूर्वकं पिबति सतीति यावत् । अन्तः पञ्जराभ्यन्तरे । वारणेति । गजशुण्डाकार इत्यर्थः । महतोऽप्यहेः स्वल्परन्धेऽपि प्रवेशो लोके प्रसिद्ध एवेति नानुपपत्तिः । फणीति । सर्पश्रेष्टः संप्रविवेशेति संबन्धः । तस्मादीश्वर एवैतत्संकटादभिरक्षवित्याशयः । अत्र करुणो रसः । सचिन्तो नायकः । रूपकलुप्तोपमे अलंकारौ ॥

 एवं नृपकुमारपण्डितवरतरुतटस्थानां परस्परं संवादे जायमानेऽकस्मादन्तः पुराद्धद्धम्येमांधरूढां तद्धर्मपत्नीं निरीक्ष्य व्याकुलमनसः कांश्चित्तरुणसदस्यान्प्रति स एव पण्डितवरः कुरङ्गान्योक्तयोपदेशं व्यनक्ति

रे चाञ्चल्यजुषो मृगाः श्रितनगाः कल्लोलमालाकुला-
मेतामम्बुधिकामिनीं व्यवसिताः संगाहितुं वा कथम्।
अत्रैवोच्छलदम्बुनिर्भरमहावर्तैः समावर्तितो
यद्भावेव रसातलं पुनरसौ यातो गजग्रामणीः ॥ ५७ ॥

 रे चाञ्चल्येति। यूयम्। श्रितेति । ‘शैलवृक्षौ नगौ’ इयमरादाश्रितकूलद्रुमाः सन्त इत्यर्थः । एतेन विवक्षितयुवकर्तृकयुवति विशेषनिरीक्षणे खभास्तम्भादिना निभृतत्वं ध्वन्यते । कल्लोलेति । महोर्मिपङ्किसंपत्तिमतीमित्यर्थः । एतां प्रत्यक्षाम् । एतेन नैबास्माभिरिदमनुष्ठितमिति वृथैवायमुपालम्भ इत्यापादनं व्युदस्तम् । अम्बु धीति । समुद्रगाम्। गङ्गरूपां नदीमिति यावत् । एवं चोत्तरार्धवक्ष्यमाणार्थयोग्यता