पृष्ठम्:भामिनीविलासः.djvu/४५

एतत् पृष्ठम् परिष्कृतम् अस्ति
३७
अन्योक्त्युल्लासः ।

द्योत्यते । संगाहितुं प्रवेष्टमिति यावत् । कथं वा व्यवसिताः कृतव्यापारा भवथेति संबन्धः । ननु किमत्रानिष्टमिति चेत्तत्राह--अत्रैवेत्युत्तरार्धेन । उच्छलदूर्वं गच्छत्तच तदम्बु च तस्य यो निर्भर आधिक्यं तेन ये महावर्ताः 'स्यादावतोंऽम्भसां भ्रमः’ इत्यमरात्प्रसिद्धा महान्तो जलभ्रमास्तैरित्यर्थः । एवकारेण कान्तान्तरे तथा नाशसंभावनासत्त्वेऽपि नास्यामसाविति शङ्का परास्ता। समावर्तितो भ्रामितः। असौ महत्त्वेन प्रसिद्धः। अत एव-राजेति । करीन्द्रः पुनर्गावेव पाषाणवदित्यर्थः । यद्यस्माद्रसातलं यात इत्यन्वयः। तस्मादयमनुचितारम्भ एव भवतामिति भावः । अत्र भयानकरौद्रौ रसौ । मूर्खा नायकाः । उपमालंकारः ॥

 अथेममभिनवं रोषपरुषं ध्वनिमाकर्य चकितमवलोकयन्तं स्वपोतं सैव युवरा जयुवतिः सिंहशिशुकान्योक्त्या परिसान्खयति-पिचेति ।

पिब स्तन्यं पोत त्वमिह मददन्तावलधिया
दृगन्तानाधत्से किमिति हरिदन्तेषु पुरुषान्।
त्रयाणां लोकानामपि हृदयतापं परिहर
न्नयं धीरं धीरं ध्वनति नवनीलो जलधरः॥ ५८ ॥

 व्हे पोत अयि बालक, त्वमिह मदीयपयोधरमण्डले स्तन्यं पिबेत्यन्वयः। ननु पिबाम्येव स्तन्यं किमित्ययं निरनुयोज्यानुयोग इत्यत आह-मदेत्यादिपूर्वार्धशेषेण त्वम् । मदेति । मदो यौवनादिविकारस्तद्वत्प्रधानाश्च ते दन्तावलाश्व ‘दन्ती दन्ता वलो हस्ती’ इत्यमरादजावेति गन्धद्विषादिवत्समासः । तेषां या धीर्जुन्या तद्वद्धि स्तयेत्यर्थः । इह प्रत्यक्षेषु । हरिदिति । दिक्प्रान्तेष्विति यावत् । परुषान्रोषक षायितानेतादृशान्दृगन्तान्किमिति कुतो नु हेतोराधत्से प्रसारयसीति संबन्धः । न च युक्तमेव वध्यबुध्द्या नेत्रकोणसंचारणं तद्रुद्धीमजन्यत्वादित्याह--त्रयाणामि त्युत्तरार्धेन । यतोऽयं प्रत्यक्षः । एतेनाश्रद्धेयनिरासः। त्रयाणामपि । एवंच महा- महिमखं द्योतितम् । लोकानां भूरादीनम् । हृदयेति । अमृतवृध्यान्तस्तापं पारि हरन्सन्नत एव धीरं धीरं यथा स्यात्तथा परमगम्भीरमित्यर्थः । नवोऽभिनवः स चासौ नीलो जलधरो मेघ एव ध्वनतीति योजना । तस्माच्छान्तो भवेति भावः । अत्रोदात्तो नायकः । वीरो रसः। भ्रान्तिरलंकारः ।

 एवं पुत्रं समाधाय तं पण्डितवरं सा नृपकुमारतरुणी नीरदान्योक्तया मधुर ध्वनिभाषणं प्रार्थयते--