पृष्ठम्:भामिनीविलासः.djvu/४६

एतत् पृष्ठम् परिष्कृतम् अस्ति
३८
भामिनीविलासे

धीरध्वनिभिरलं ते नीरद मे मासिको गर्भः।
उन्मदवारणबुध्ध्या मध्येजटरं समुच्छ्लति ॥ ५९ ॥

 धीरेति। हे नीरद, ते तव धीरेति । गभीरारावैरित्यर्थः। अलं पर्याप्तम् । तत्र हेतुमाह-न इत्यादिशेषेण। मे मम मासिको मासमात्रकालिको गर्भः । गर्भस्थः सुत इति यावत् । उन्मदेति । उन्मत्तमातङ्गभ्रान्त्येत्यर्थः । मध्येजठरं जठरस्य मध्य इति यावत् । समुच्छलति सम्यगुह्वानं करोतीति योजना । तस्मा न्मधुरं वक्तव्यमित्याशयः । अत्रोता एव नायकादयः ॥

 अथ पुनरपि तैजसप्रकृतिकत्वेनातिचञ्चलं त्वखबालं प्रति सैव सिंहान्योक्तया परिसान्त्वयति--वेतण्डेति ।

वेतण्डगण्डकण्डूतिपाण्डित्यपरिपन्थिता ।
हरिणा हरिणालीषु कथ्यतां कः पराक्रमः ॥ ६० ॥

 वेतण्डेति । तण्डा गजास्तेषां ये गण्डाः कपोलास्तेषां यत्कण्डूतिपाण्डित्यं तस्य यः परिपन्थी प्रतिस्पर्धा तेनेत्यर्थः। एतादृशेन हरिणा सिंहेन । हरिणेति । मृगपद्दिष्वित्यर्थः। कः पराक्रमः कथ्यताम् , अपि तु न कोऽपि कथ्यतामिति संबन्धः । तस्मादेते रुरुखाश्रितास्त्वया यथार्ह पूजनीयास्तथा परिपालनीया एवेति भावः । अत्र धीरो नायकः। करुणो रसः ॥

 ततस्तत्पितासौ नृपकुमारः कंचिदागतं नीचजनं सकुर्वतेन पण्डितमण्डनीभू तेन सद्रुरुण कमलान्योक्त्या प्रबोध्यते-

नीरान्निर्मलतो जनिर्मधुरता रामामुखस्पर्धिनी
वासः किं च हरेः करे परिमलो गीर्वाणचेतोहरः।
सर्वस्वं तदहो महाकविगिरां T कामस्य चाम्भोरुह
त्वं चेत्प्रीतिमुरीकरोषि मधुपे तत्वां किमाचक्ष्महे ॥६१॥

 नीरादिति । हे अम्भोरुह, तव निर्मलतो नीराजनिरुत्पत्तिः । न च संबुधै वास्य गतार्थखात्पौनरुक्तयापत्तिः। तत्पदस्य योगरूढत्वेऽपि ‘रूढिर्यागमपहरति’ इति न्यायेन शीघ्रोपस्थित्या च पद्ममात्रपरत्वात् । किंच तव मधुरता जहत्स्वार्थया ‘गङ्गायां घोषः' इत्यादिवत्त्वन्मधुमाधुरीत्यर्थः। रामेति । यावत्त्रीगुणा या रंभणी तस्या यन्मुखं निरुतलक्षणया तदेकदेशोऽधरस्तस्पर्धिनी खाधिक्येन तद्विरोधि