नीत्यर्थः । यद्वा मधुरता 'मुखरुचा सौधाधरीमाधुरी’ इत्यादिवत्सुन्दरतैव । तथाच नोक्तलक्षणाद्वयायासः । एवं किंच । तवेति वास इत्यत्र परिमल इत्यत्र च ज्ञेयम् । गीर्वाणा देवाः । तत्तस्मादहो इत्याश्चर्यं । त्वं महाकविगिरां सर्वस्वं सर्व त्रोपमानयोग्यत्वात्तथा कामस्य सर्वस्खम् । ‘अरविन्दमशोकं च’ इति प्रथमबाण त्वात् । असि । अथ त्वं चेन्मधुपे भृङ्ग, पक्षे मद्यपे नीचे, प्रीतिमुरीकरोषि खीकरोषि तत्तहिं त्वां किमाचक्ष्महे कथयामः। न किमपि वदाम इत्यर्थः । “यस्य इति पाठे यस्य तव नीरादित्यादि योजयित्वा हे अम्भोरुह, तत्त्वमहो महाकवी त्यादि योज्यम् । तस्मादिदं नैव कार्यमिति तात्पर्यम् । अत्र मूढो नायकः । श्लेषः प्रतीपावलंकारौ ॥
किंच बलवच्छचूंपेक्षा नैव कार्येति गजान्योक्तया व्यनक्ति--
लीलामुकुलितनयनं किं सुखशयनं समातनुषे । |
लीलेति । परिणामे विषमो यो हरिस्तेनेति सहार्थे तृतीया । स्पष्टमेवान्यत् । तस्मात्सावधानो भवेति भावः । अत्र प्रमत्तो नायकः । भयानको रसः । लुप्तोपमालंकारः ॥
एवं निरुकाचार्यवचसि विश्वासदाढ्यर्थं कश्चित्तटस्थतं राजसुतं प्रति ‘सकृज्ज ल्पन्ति पण्डिताः’ इति वचनात्तद्वचोदौर्लभ्यादि द्योतयन्सामान्यतो विदुषां वचसः प्रेक्षापूर्वकत्वाचलार्थकत्वे ध्वनयति--
विदुषां वदनाद्वाचः सहसा यान्ति नो बहिः। |
विदुषामिति । न परावन्ति वैयर्यादिद्वारा नैव पराङ्मुखीभवन्तीत्यर्थः । तत्र दृष्टान्तं स्पष्टयति-द्विरदानामिति शेषेण । ‘द्विरदोऽनेकपो द्विपः' इत्यमरा द्भजानामिति यावत् । रदा इव दन्ता इवेत्यर्थः । वाचां नैसर्गिकनैर्मल्यशालित्वेन दृढत्वादिसंपूर्णगुणवत्त्वेनाचलत्वेन च पुंस्त्वेनोपमानमिति रदा इवेत्यनेन ध्वन्यते । तस्मात्त्वयैतद्वाक्यं श्रद्धेयमेवेति भावः । अत्र धीरो नायकः । पाण्डि त्यवीरो रसः । पूर्णोपमामात्रमलंकारः ॥
अथ स एव पण्डितवरः प्रकृततटस्थं प्रति किमिति त्वमस्य मयि विश्वासं जनः यसि, यद्यप्ययं वदान्यस्तथाप्यपरीक्षक इति विश्वासभावाभावयोरप्यस्माकं तु फलं पामरैस्तुल्यमेव भवतीति कल्पद्रुमान्योक्त्या व्यनक्ति--