रोषोऽपि कोपोऽपि रमणीय एवेति यथाश्रुतमेवान्वयः। अपना हितोपदेशार्थं स चेत्किमु वलव्यमिति द्योत्यते । तत्र दृष्टान्तं स्पष्टयति—लोकमित्युत्तरार्जुन । लोकं जगत्पृणन्ति परितोषयन्तीति तथा तैः । करमीरेति । कुहुमस्येत्यर्थः।। इह नायकाद्युक्तमेव ॥
अथ श्रीमदग्रे क्षमादिप्रार्थनादावपि क्क नामास्माकं पामराणां सामथ्र्यमिति खविनयं व्यञ्जयनौद्धत्यं चापनयन्स एव राजकुमारः खस्य प्रकृतमेव गुरुं प्रति तन्माहात्म्यं ध्वनयति--
लीलाहुण्ठितशारदपुरमहासंपद्भराणां पुरो |
लीलेति । विद्येति । विद्याया ऋगादिचतुर्दशान्यतमाया यत्सदा हं तस्माद्वि निर्गलन्तोऽवकरादिना सह च्यवन्तो ये कणा धान्यलेशा इवाक्षरार्थशास्तान्मुष्णन्ति स्तेयेनापहरन्ति ते तथा। एतादृशोऽत एव पामरा मादृशो नीचा जनः । लीलेति । लीलया हेलया न त्वायासेन कुण्ठिता हठातृहीताः । शारदायाः सरस्वत्या यत्पुरं नगरम् । न तु गृहं नापि ग्रामः । तस्य महासंपद्मरा उत्कटैश्वर्यसंभारा यैस्ते तथा तेषां भवादृशां निरतिशयविदुषां पुरोऽग्रे वल्गन्ति चेद्रटन्ति यदि तर्वद्याधुनैव श्वो वा फणिनां सर्पाणां मूर्धसु मस्तकेषु । शकुन्तेति । पक्षिपोताः । तथा दन्ता- वलानां गजानाम् । मूर्धस्खिति सर्वत्रानुषज्यते । शशाः प्रसिद्धा एव । एवं सिंहानां मूर्धसु शालावृकाः श्वनो वा ‘शालावृकाः कपिक्रोष्टश्वानः’ इत्यमराक्कोष्टारः । पदं चरणं सुखेनानायासेनैव धास्यन्ति स्थापयिष्यन्तीति योजना । ‘मूर्धनि’ इत्येक वचनान्तोऽपि पाठः। तत्राप्यनर्थान्तरमेव । तस्मात् ‘नभः पतन्त्यारमसमं पत त्रिणः’ इति न्यायात्स्वशक्त्यनुसारेण स्वापराधक्षमापनार्थमेव मया यत्किंचिच्छीम चरणनलिनाने यथाकथंचित्प्राणुते । न तु पाण्डित्यप्रकटनार्थमतः क्षन्तव्यमेवेति भावः । अत्रोदात्तो नायकः । पाण्डित्यवीरो रसः । यथासंख्यमलंकारः ॥
किंच न केवलं महतां कोपे कमनीयवमात्रं किंतु तत्कृतपरुषवाग्भिस्तर्जितानां मादृशां शिष्याणां महत्त्वापादकखमपीति स एव राजकुमारः प्रकृतं स्खगुरुं प्रति द्योतयति--