पृष्ठम्:भामिनीविलासः.djvu/५३

एतत् पृष्ठम् परिष्कृतम् अस्ति
४५
अन्योक्त्युल्लासः ।

 एवं गुरुवाक्यमाकर्ण्र्यं स एव राजकुमारः खलानामपि सद्गुणोत्पादनार्थमनुस्ञ्जनपूर्वकं सद्भिरपि संग्रहणं करणीयमेवेत्याकृतेन तथा स्खभाववत्तया तद्वर्णनं प्रणयति-सत्पुरुष इत्यादिद्वाभ्याम् ।

सत्पूरुषः खलु हिताचरणैरमन्द-
मानन्दयत्यखिललोकमनुक्त एव ।
'आराधितः कथय केन करैरुदारै
रिन्दुर्विकासयति कैरविणीकुलानि ॥ ७३ ॥ (युग्मम् ।)

 सदिति । पुरुष एव पूरुषः । संश्वसौ पूरुषश्चेति तथा। साधुजन इत्यर्थः। अनुक्त एवाप्रार्थित एव सन्नित्यर्थः। अखिलेति। सर्वजगदपीति यावत् । हितेति । तत्कल्याणव्यापरैरित्यर्थः। नतु तात्कालिकसुखाभासजनकैः स्रक्चन्दनाङ्गनासङ्ग- संघटनैरिति यावत् । अमन्दं प्रचुरं यथा स्यात्तथा । आनन्दयति खलु संतोषय त्येवेत्यन्वयः। तदेवार्थान्तरन्यासेन द्रढयति —आराधित इत्युत्तरार्धेन । इन्दुः केनाराधितः सन्कैरविणीकुलान्युदरैः करैर्विकासयतीति कथयेति योजना । एतेन नेयं व्याप्तिरिति प्रत्युक्तम् । एवंच निरुक्तप्रयोजनार्थ खद्भिर्धर्जना अपि रजनीया एवेति भावः । नो चेखभावभङ्गप्रसङ्ग इति तत्त्वम् । अत्र ललितो नायकः । करुणो रसः। उक्त एवालंकारः ।

परार्थीव्यासङ्गादुपजहदथ स्वार्थपरता-
मभेदैकत्वं यो वहति गुणभूतेषु सततम् ।
स्वभावाद्यस्यान्तः स्फुरति ललितो दातृमहिमा
समय यो नित्यं स जयतितरां कोऽपि पुरुषः ॥ ७४ ॥

 परार्थेति । स कोऽप्यनिर्वाच्यगुणगणः पुरुषो जयतितरामित्यन्वयः । तरपा परिच्छिन्नसर्वोत्कर्षवर्तनव्युदासः । कोऽसावित्यत आह-—परार्थेत्यादिविशेषणत्र येण । यः परार्थेति । परस्मा अयं परार्थः । स चासौ व्यासङ्गो व्यापारश्वेति तथा तस्मादित्यर्थः । स्वार्थेति । स्वपुरुषार्थपरायणतामपीति यावत् । उपजहदुपजहाति त्यजतीति तथैतादृशः सन् । अमेदेति । न विद्यते मेदो जलतरङ्गदिन्यायेन दैतावभासो यस्मिस्तच्च तदेकत्वं चेति तथा । विशुदैकामिति यावत् । एतेनौपचा किप्रेम प्रत्यस्तम्। सततं सर्वदा । इदं च देहलीदीपन्यायेनोभयत्राप्यन्वेति । तेन प्रेम्णः क्षणिकत्वं गुणानां च तथात्वं प्रत्युक्तम् । गुणेति । ‘युके क्ष्मादावृते भा० वि० ४