पृष्ठम्:भामिनीविलासः.djvu/५४

एतत् पृष्ठम् परिष्कृतम् अस्ति
४६
अन्योक्त्युल्लासः ।

मूतम्' इत्यमराठूतपदस्य ऋतशब्दितसत्यार्थकत्वेनावधारणफलकत्वादुणा एवेति तथा । तेषु मूर्तिमच्छान्यादिगुणेष्वित्यर्थः । सुजनेष्विति यावत् । वहति स्वीकरोतीति संबन्धः । पुनः कः सः । खभावादिति । यस्यान्तः स्वभावादेव न तु लोकप्रार्थेनादिहेतोरित्यर्थः । अत एव ललितो निष्कामतया सुन्दरो दातृमहिमा वदान्यमाहात्म्यमित्यर्थः । ‘उदात्त-' इति पाठे तु कर्मधारयः । स्फुरतीति योजना । एतेन निरतिशयौदार्यं सूचितम्। पुनः कः सः । समर्थ इति । यो नित्यं नतु क्षणमात्रं समर्थो दक्षः । अस्तीति शेषः । एतेनाचिन्त्यशक्तिमत्त्वं व्यज्यते । अत्र विशेषणत्रयेऽपि यथेच्छं हेतुहेतुमद्भावः । इह प्रथमे परमगुण ज्ञत्वं द्वितीये वदान्यमान्यत्वं तृतीये तद्रक्षणक्षमत्वं च क्रमाङ्गनितम् । तस्माद्भ चाडशां महतां ‘अयं निजः परो वेति गणना लघुचेतसाम् । उदाचरितानां तु वसुधैव कुटुम्बकम् ॥' इति वचनात्रिरुपाधिकमेव सर्वानुग्रहशीलत्वमित्याकृतम्। इह नायकाद्युक्तमेव ॥

 अथ स तद्ररः सत्यमेव सर्वानुग्राहकत्वं स्वाभाव्यात्सतां तथापि भवादृशं राजकुमारैः सत्सङ्ग एव दुःसङ्गवर्जनपूर्वकं विधेय इत्यन्वयव्यतिरेकाभ्यामर्थान्तर न्यासाभ्यामुपदिशन्व्याप्ती प्रतिबोधयति–वंशभव इत्यादिद्वाभ्याम् ।

वंशभवो गुणवानपि सङ्गविशेषेण पूज्यते पुरुषः।
न हि तुम्बीफलविकलो वीणादण्डः प्रयाति महिमानम् ॥७५॥

 वंशेति । वंशः कुलम् , पक्षे वेणुः । गुणः शमादिः, पक्षे ती । इह संबोध्यो नायकः। शिष्टं स्पष्टमेव ।

अमितगुणोऽपि पदार्थों दोषेणैकेन निन्दितो भवति ।
निखिलरसायनमहितो गन्धेनोग्रेण लशुन इव ॥ ७६ ॥

 निखिलेति । नष्टपुंस्त्वाद्यापादकत्वात्तथात्वं बोध्यम् । यद्यपि तत्कामानां च निर्गुष्ट एव, तथापि तच्छास्त्रविदां पुट्याद्यपादपाकादावनुपयुकत्वादुष्टत्वविवक्षयैव तथात्वेनोदाहृत इति ध्येयम् । नो चेत्तत्तत्कामुकेप्सितत्वेन किंचिदपि दुष्टं नैव स्या दिति दिक् । अधिकं तु साहित्यसारे दोषरनादावस्माभिः प्रपञ्चितमित्यत्रोपरम्यते ।

 किंच सतां किंचिदपकारेऽपि दैववशादज्ञानादिना संपद्यमाने ते तावदुपकार- मैव कुर्वन्तीत्यतोऽपि सत्सङ्ग एव कर्तव्यो न तु कदाचिद्वसन्नोऽपीत्याशयेन पुनः स एव सद्वरुः प्रकृतमेव नरवरकुमारं प्रतिबोधयति--