एवं तदुक्तिं श्रुत्वा तत्रत्य एव प्रागुक्तः पिशुनस्तावद्विदूषक इव तद्वाक्यस्य अहहेति शब्दपूर्वकं हस्ताभिनयेनोपहासमेवाकरोत् । अतः क्रुद्धः स पण्डितवरः पुनः स्फुटमेव मर्कटदृष्टान्तेन तन्निन्दनं ध्वनयति—-
युक्तं सभायां खलु मर्कटानां |
युक्तमिति । मर्कटानां सभायां तरूणां शाखाः मृदुलासनानि । तथा चीत्कृतिः धीत्कारः सुभाषितम् । तथा दन्तैर्नखागैश्च विपाटितानि परस्परं विदारणान्याति थेयी अतिथौ साधुस्तथा । तत्पूजेत्यर्थः । इति युक्तं खल्विति योजना ॥
एवम् श्रीगुरोः क्षोभमवलोक्य तदुपशमनार्थंमतिनीभूय ‘भो भोः श्रीमदाचार्य, क्षम्यतामस्मदादीनामपराधकदम्बम् , तथा मया यत्किंचित्पृच्छयते प्रश्नपञ्चकेन प्रपश्चरहस्यं तन्निर्णयोपदिश्यतां च' इति राजकुमारः संप्रार्थं पृच्छति
किं तीर्थ हरिपादपद्मभजनं किं रत्नमच्छा मतिः |
किं तीर्थमिति । तदुत्तरयति-~हरीति । एवमेव प्रश्नोत्तरपरम्परेयं पर्याय चतुष्टयेऽप्यग्रे बोध्या । अच्छेति । स्वच्छेत्यर्थः। विषयित्वखभावशाली राजतनूजो भेदवादाभिनिवेशात्तत्प्रतिपादकशास्त्रेषु किमुत्तमं शास्त्रं यस्य श्रवणे तात्पर्यनिर्णये जाते सति दैतं तिष्ठत्येव, येन विषयसुखं मोक्षसुखं चास्माकं स्यादित्याशयेन पृच्छति–किं शास्त्रमित्यादिना । गुरुः स्खचातुरीमाहात्म्येन तदभिमतविशेषण एवाद्वैतित्वेन तृतीयान्तविवक्षया समाधत्ते-श्रवणेनेति । दैतेति । दृश्यरूपध्वा- न्ताभ्युदय इति यावत् । अत्र यच्छब्दानुरोधेन पूर्वं तच्छास्त्रं किमिति प्रश्नेऽपि तच्छब्दाध्याहारो बोध्यः । सततेति । निरन्तरोपकारतत्परमित्यर्थः । मित्रम् । विशेषणदेवात्र क्लीबत्वम् । पुंलिङ्गपाठस्तु किं शास्त्रमित्यादिप्राक्तनप्रश्न, तथा कः शत्रुरित्याद्युत्तरप्रश्नेऽपि विशिष्टस्यैव पृष्टत्वेन तत्स्वारस्यान्मध्यवर्तिनः किं मित्रमि त्यादिप्रश्नस्यापि संदंशन्यायेन तथैव वक्तुमुचितत्वादसततोपकाररसिकस्य तत्त्व वबोधस्यादृष्टत्वेन तद्युदासार्थं निरुकविशेषणानपेक्षणाचानुचित एव । हे सखे