इति संबोधनं तु हरिपादेत्यादिसमाधानपञ्चकेऽपि ज्ञेयम् । तेन सौहार्दातिशय ध्वननाज्ञिरुतोत्तरेऽप्याश्वसनीयतमत्वं व्यज्यते । तत्त्वेति । अद्वयात्मसाक्षात्कारेति यावत् । अत्रैव सखे इति संबोधनप्रयोगादेतदपेक्षयान्यद्रहस्यं नैवेति द्योत्यते । एवं वदेति पदमपि प्रश्नपञ्चकेऽपि । तथा तदनुरोधात्त्वंपदाध्याहारश्च कर्तव्य एव । वेदेति । दुःखदागदक्ष इत्यर्थः । दुर्वासनानामन्तःकरणादिनिष्ठदुष्टसंस्कारा राणां चयः संघ एवेति योज्यम् । ‘सखा” इति प्रथमान्तपाठः ‘संचयः’ इति पाठश्च कः सखेत्यध्याहारापत्तेः क्रमभङ्गपत्तेः प्रश्नसरणित्यागापत्तेः सखिमित्रयोर- वान्तरविशेषेऽपि हितकारित्वाविशेषेण पौनरुक्त्यापत्तेः खेददानकुशल इत्यत्रापि कमभङ्गभिया प्रश्नान्तरत्वाद्यपत्तेरन्यथा दुर्वासनेत्यादावनन्वितत्वापत्तेश्च संवुद्यन्त- पाठेऽपि क्रमभङ्गदोषस्य तु प्रथमे चरण एवाविशिष्टपृष्टत्वेन पराकरणीयत्वादनुचित एव। तथा ‘सम्पदेन गुणानाधानाप्रत्युत पदचतुष्टयसमासघटकत्वाच्च तस्य मधुर रसे प्रकृतेऽनुपयुक्तत्वाच्च तथैव सोऽपीति ध्येयं धीरैः। अत्र किं शास्त्रमित्यादि विशिष्टप्रश्नत्रयेऽपि क्रमाद्धर्ममीमांसायाः सुग्रीवादिवद्यत्किंचित्कालावच्छेदेनोपकार- परायणमित्रस्य, शिशुपालादिलक्षणस्य खेददानाकुलस्य शत्रोरपि व्युदासः सूचितः। तस्माद्धरिपादपद्मभजनादिचतुष्टयं पुमर्थचतुष्टयेच्छुना संपादनीयमेव तथा दुर्वास नाध्वंसनं चेति तत्त्वम्। इह बुभुत्सुर्नायकः। शान्तो रसः। उक्तिप्रत्युक्तिरलंकारः ॥
अथैवं निरुक्कराजपुत्रः सहुरूकं सकलपुरुषार्थनिदानमवधार्यं परमं परितुष्ट इति कश्चित्तचैवोपविष्टो दुष्टो दृष्ट्वा मैनाकदृष्टान्तेन तन्निन्दनमेव व्यङ्ग्यमर्यादया--
निष्णातोऽपि च वेदान्ते साधुत्वं नैति दुर्जनः । |
निष्णातोऽपीति । निष्णातो नितरां स्नात इव। निमग्नोऽपीत्यर्थः । अपिना तदन्यस्य कैव कथेति ध्वन्यते । मार्दवं मृदुखम् । एवं च तवेदं वञ्चकत्वमेवोपदे- शवचनमिति तात्पर्यम्। इह धूर्ता नायकः। वीरो रसः। उपमालंकारः ॥
एवं निन्दनाकर्णनेनातिखिन्नः स गुरुः स्खगतमेवाडैतित्वाच्छेषेण गुणान्निन्दति-
नैर्गुण्यमेव साधीयो धिगस्तु गुणगौरवम् । |
नैर्गुण्यमेवेति । भौव्यमेव । पक्षेऽचैतनमवमेव । वर्षीयः । ‘साधीयान्सा