पृष्ठम्:भामिनीविलासः.djvu/५९

एतत् पृष्ठम् परिष्कृतम् अस्ति
५१
अन्योक्त्युल्लासः ।

घुबाढयोः’ इत्यमरात्खाध्वित्यर्थः । स्पष्टमेव धिगित्यादि । तदेवार्थान्तरन्यासेन इढयति—शाखिन इत्युत्तराधैन। शाखिनः ‘वृक्षो महीरुहः शाखी’ इत्यमरावृक्षा इत्यर्थः । चन्दनेति । अत्र यद्यपि द्वमपदमधिकमेव तथापि वक्तुर्निर्वेदाविष्टचेत स्कत्वेनानवधानध्वनकमिति युक्तमेव । अत्र निर्विण्णो नायकः । शान्तो रसः । अर्थान्तरन्यासः श्लेषश्चलंकारः ॥

 एतावदमानो मम धनयाश्चमूल एवेति विभाव्य स एव पण्डितस्तन्निन्दां ध्वन यन्वृक्षजीवनमेव धन्यत्वेन वर्णयति

परोपसर्पणानन्तचिन्तानलशिखाशतैः।
अचुम्बितान्तःकरणाः साधु जीवन्ति पादपाः ॥ ८४ ॥

 परेति । परं प्रत्यन्यं प्रति यदुपसर्पणं स्वीययोगक्षेमार्थमुपगमनं तेनानन्ता दुरन्ता या चिन्ता सैवानलोऽग्निस्तस्य याः शिखा ज्वालास्तासां शतनि तैरित्यर्थः। अत्रानन्तेत्यादिना दुःसहत्वं द्योत्यते । अचुम्बितेति । न चुम्बितमेकदेशेऽपि स्पृष्टमन्तःकरणं येषां ते तथा एतादृशाः पादपा वृक्षाः । अत एव साधु शोभनं यथा स्यात्तथा जीवन्तीति संबन्धः । तस्मादयाचितव्रतानामेव चारु जीवितम् , नैवान्येषामिति तात्पर्यम् । अत्राप्युकावेव नायकरसौ। अप्रस्तुतप्रशंसा परिक- रश्वलंकारः ।

 अथैवं सद्वरुनिर्वेदमालक्ष्य स राजपुत्रः श्रीगुरुं प्रति ‘भो भो भगवन्’ अनेन तटस्थेन ‘निष्णातोऽपि च’ (१८२ ) इत्यादि पद्ये यत्त्वां प्रत्युकं तत्त्वामुद्दिश्य नैवोकम्, किं तु यन्मया पूर्वपक्षी ‘किं शास्त्रम्’ (१८१ ) इत्यादिना मेदवादामि निवेशेन पृष्टम्, तत्त्वादृशाचार्यचरणान्तेवासिनो मेऽनुचितमेवेत्यभिसंधाय मङ शेनैवोक्तम् , अतो नैतदपराधबुख्य मनः खेदनीयमिति प्रार्थयंस्तेन सजनसामा न्यस्तुत्या ध्वनिपद्धतितः स्तौति-

शन्येऽपि च गुणवत्तामातन्वानः स्वकीयगुणजालैः ।
विवराणि मुद्रयन्द्रार्णायुरिवेह सज्जनो जयति ॥ ८५॥

 शून्येऽपि चेति । स्रजन ऊर्णायुरिव लताकीट इव शून्येऽपि च चूल्यहृदये पुंस्यपि विषये । पक्षे युवकाशदेशेऽपीत्यर्थः । स्वकीपेति । नैवाग्मिन्नादिसर्म संधैः । पक्षे सूत्रपटलैरित्यर्थः । गुणवत्सां पक्षद्वयेऽपि यथाक्रमं निरुकर्पवैमि ज्यामिति यावत् । आलन्वान आतनोति तथा मिस्त्यत्र । तत्र एव विवक्षि शेषस्थानानि पछिद्राणि पक्षे शवाक्षाद्विभ्रमि शुभशुद्रितानि कुर्वन् ।