पृष्ठम्:भामिनीविलासः.djvu/६३

एतत् पृष्ठम् परिष्कृतम् अस्ति
५५
अन्योक्त्युल्लासः ।

गिरयो गुरवस्तेभ्योऽप्युर्वी गुर्वी ततोऽपि जगदण्डम् ।
'तस्मादप्यतिगुरवः प्रलयेऽप्यचला महात्मानः ॥ ९२॥

 गिरय इति । गुरवो महान्तः। उर्वा पृथ्वी । जगदण्डं ब्रह्माण्डम् । प्रलय इत्याद्यतिगुरुत्वे हेतुगर्भ विशेषणम्। अचलत्वमत्र क्षभशन्यत्वम् । उक्तं हि योग वासिष्ठे—‘अपि स्फुटति विन्ध्याद्रौ वाति वा प्रलयानिले । गुरुशास्त्रानुगो मार्गः परित्याज्यो न धीमता ॥’ इति, ‘विचारदर्पणे लन्नां धियं धैर्यधुरं गताम् । आध यो न विलुम्पन्ति वाताश्चित्रानलं यथा ॥’ इति ‘नापदि ग्लानिमायान्ति हेमपर्धा यथा निशि’ इत्यादि च । तस्माच्छीमद्भिरस्मदादीनां सवोनप्यपराधान्सद्वास्म दादयः सर्वेऽपि खलाः समनुप्राह्य एवेति भावः । अत्र धीरो नायकः । गुरुर तिर्भावः। सारोऽलंकारः । तदुक्त कुवलयानन्दकारिकासु–‘उत्तरोत्तरमुत्कर्षः सार इत्यभिधीयते । मधुरं मधु तस्माच सुधा तस्याः कवेर्वचः ॥’ इति ॥

 पुनरपि श्रीगुरुरिदं दुर्घटमेवेति मन्वानः खलनिन्दां व्यनक्ति--

व्योमनि वासं कुरुते चित्रं निर्माति यत्नतः सलिले ।
स्नपयति पवनं सलिलैर्यः क्षुद्रे चरति सत्कारम् ॥ ९३ ॥

 व्योमनीति । यः क्षुद्रे । 'क्षुद्रे ‘स्तोकाल्पङक्लका’ इत्यमरादल्प इति यावत् । ‘यस्तु खले’ इति पाठः साधुः । सत्कारः सकरणं सत्कारः साधुतां नयनमित्यर्थः। ख व्योमन्याकाशे वासं वसतिम् । व्योमनि शम्बाम्’ इति पाठे शम्बां क्षेत्रभकिम्। कृषिविभागमिति यावत् । कुरुते । तथा पवनं सलिलैः स्नपयतीति संबन्धः । एवं चैतत्रयं यथा कालत्रयेऽप्यघटमानं तथा क्षुदस्य साधुत्वापादनमपीति ताप र्यम् । अत्र दुःशठो नायकः । शान्त एव रसः । दृष्टान्तविशेषोऽलंकारः ॥

 न केवलं मूर्वस्य साधुत्वापादने यनवैफल्यमेव प्रत्युत तत्कृतस्खवचनानादरः वशान्मानहानिरपि । ततः ‘सतां माने म्लाने मरणमथवा दूरगमनम्’ इति न्यायेन मृत्युसमकक्षदुःखापत्तिरिति स एव पण्डितो मर्कटान्योक्तया व्यनक्ति--

हारं वक्षसि केनापि दत्तमदोन मर्कटः।
लेढि जिघ्रति संक्षिप्य करोत्युचतमासनम् ॥ ९४ ॥

 द्वारमिति । लेव्याखादयति । जिघ्रति गन्धग्रहणविषयीकरोति। संक्षिप्या स्त्यक्त्वा । उन्नतमुखमासनं करोतीति स्ष्टमेव । तस्मादनुचितमेव मूर्वाधु पादमयसममिति हृदयम् । इह नयकायुकमेक । अप्रस्तुतनिन्दालंकारः ।