पृष्ठम्:भामिनीविलासः.djvu/६५

एतत् पृष्ठम् परिष्कृतम् अस्ति
५७
अन्योक्त्युल्लासः ।

मपि । तेनास्य तुच्छत्वं व्यज्यते। हुन्कालिमानं कार्यमेतीति योजना । तस्मा द्धिग्धनयाचनमित्याकूतम् । अत्रोदासीनो नायकः । शान्तो रसः। काव्यार्थापत्त्य- नुप्राणितोर्थान्तरन्यासोऽलंकारः ॥

 एवं समनुतप्तं तं तटस्थमालक्ष्यानुजिघृक्षुः स पण्डितस्तं नृपकुमारोपहारार्थ कैनचिदानीतमलयजेक्षणप्रसतया चन्दनान्योक्त्या स्तुत्या मण्डयति--

जनकः स्थाणुविशेषो जातिः काष्ठे भुजंगमैः सङ्गः ।
खगुणैरेव पटीरज यातोऽसि तथापि महिमानम् ॥ ९७॥

 जनक इति । स्थाणुविशेषः “स्थाणुः कीले स्थिरे हरे’ इति विश्वात्स्थिरत्वोपछ- क्षितो मलयाचल इत्यर्थः । ‘सानुविशेषः’ इति पाठे 'स्नुः ‘प्रस्थः सानुरस्त्रियाम् ' इयमरात्प्रस्थविशेषः । एतेन कुलोन्नत्यराहित्यं व्यज्यते । अस्त्वेवमथापि जात्या हीरकादिवर्दौन्नत्यं स्यादित्यत आह--जातिरिति । काष्ठम् । एतेन दहनेतरानुप योगित्वं ध्वन्यते । एवमपि खात्युकवसङ्गविशेषेण तत्स्यादित्यत्राह-भुजंगमै- रिति । हे पटीरज मलयज । चन्दनेत्यर्थः। एवं च प्राक्प्रतिज्ञाते जनक इत्यादौ हेतुद्यतितः । त्वं तथापि कुलजातिसङ्गसौष्ठवाभावे सत्यपीत्यर्थः। खेति । नैजसौ। रभ्यादिधनैरेवेत्यर्थः । एवं च गुणानामगणितत्वं महत्त्वसाधकसामभ्यन्तरविरहि तत्वं च सूचितम् । महिमानं देवसेव्यत्वादिलक्षणमत्कव्यम् । यातोऽसि प्राप्तोऽसी त्यन्वयः । न चेदं मलयस्य न वा काष्ठत्वजातेरपि माहात्म्यं यच्चन्दने सुरसेव्य त्वम्, किं तु तस्य नैसर्गिकसौरभ्यप्रभाव एव। तद्वद्भवतोऽप्यद्य स्वाभाविक एवायं सत्त्वोदय इत्याशयः। अत्र ललितो नायकः। शिष्यरतिर्भावः । प्रस्तुताङ्करोऽलंकारः॥ ततस्तं तटस्थं स एव पण्डितः प्रश्नोत्तरसरण्या संजातानुतापत्वेन राजतनूजा पेक्षयापि मोक्षसाम्राज्यलक्ष्मीप्रासादे द्रुतमारुरुक्षुमालक्ष्य सर्वोपदेशरहस्यं विषय सुखोपलक्षितं यावद्वैतत्यागमेव संक्षिपति--

कस्मै हन्त फलाय सज्जन गुणग्रामाजेने सजसि
स्वात्मोपस्करणाय चेन्मम वचः पथ्यं समाकर्णय ।
ये भावा हृदयं हरन्ति नितरां शोभाभरैः संभृता
स्तैरेवास्य कलेः कलेवरपुषो दैनंदिनं वर्तनम् ॥ ९८ ॥

 कॅस्सा इति । हे सज्जन, त्वं हन्त सखेदं कस्मै फलाय । गुणेति । वाग्मित्व दिचारुधर्मसंघसंपादन इत्यर्थः । सज्जसि । संसको भवसीति यावत् । स्वान्तःकर