पृष्ठम्:भामिनीविलासः.djvu/६६

एतत् पृष्ठम् परिष्कृतम् अस्ति
५८
भामिनीविलासे ।

णादेः सत्संस्कारसंपादनार्थं सद्गुणसम्प्रहे किमिति न यतितव्यमित्याशग्ङ्क्या समाधातुमवधानप्रदानं बोधयति-स्वत्मेति । स्वात्मनो निजान्तःकरणादेरुपस्करणं संस्करणं तस्मा इत्यर्थः । किमिति त्वद्वचः समाकर्णनीयमित्यतस्तत्र हेतुगर्भ विशेषणम्-पथ्यमिति । परिणामहितमित्यर्थः । एवं चास्य प्रथममप्रियत्वेप्यनादरणानर्हत्वं ध्वन्यते । ‘समू' पदेनावधानश्रद्धाधिक्यापेक्षा व्यज्यते । किं तदि त्यत्राह--य इत्युत्तराधैन । ये भावा अनञ्पदार्थाः । नितरां शोभाभरैः संभूताः परिपुष्टाः । अत एव हृदयं मनः । नितरामिति काकाक्षिगोलकन्यायेनोभयत्रा- न्वेति । हरन्ति वीकुर्वन्ति । तैरेव प्रागुक्तरम्यानञ्पदार्थेरेव न त्वन्यैः । अस्य साक्षिप्रत्यक्षस्य । कलेवरेति । कलेवरं शरीरं पुष्णातीति तथैतादृशस्य कलेः कलियुगाख्यस्य । वर्तमानकालस्येत्यर्थः । दैनंदिनं दिने दिने भवं दैनंदिनम् । प्रतिदिवससंभवमिति यावत् । वर्तनम् । जीवननिर्वहणमित्यर्थः । अस्तीति शेषः। कलियुगेऽस्मिन्प्रायशो रम्यपदार्थानामेव प्रतिदिवसं भूरिक्षयो भवतीत्यतो धिग्दे हादिरम्यतासंपादकगुणगणासादनमिति हृदयम् । अत्र सज्जनेत्युपदेशार्हत्वं व्यज्यते । इहोदसीनो नायकः । शान्तो रसः । आक्षेपोऽलंकारः ॥

 एवं यावद्रम्यस्याशुविनाशित्वमाकर्य स तटस्थः श्रीगुरुविरहेण निरुक्तनरवर- कुमारस्य दुरवस्थाकथनच्छलेनोभयोरपि तच्चरणकमलयुग्मे रतिमानान्योक्त्या व्यनक्ति--

धूमायिता दश दिशो ललितारविन्दा
देहं दहन्ति दहना इव गन्धवहाः।
त्वामन्तरेण मृदुजालकलाम्र मङ
गुञ्जन्मधुव्रतमथो किल कोकिलस्य ॥ ९९ ॥

 धूमायिता T इति । हे मृद्विति । मृदु कोमलमेतादृशं यज्जालकं कलिकाजालं तल्लाति आदत्त इति तथा एतादृश भो आम्र । अथोऽनन्तरं त्वामन्तरेण भवन्तं विना कोकिलस्य । ललितेति । ललितानि फुल्लत्वादिना सुन्दराण्यरविन्दानि महोत्पलानि यासु ताः । एतादृशो दशदिशोऽपि । यद्यप्यूर्वाधोदिशोर्नारविन्द संभावना तथापि ब्रह्मलोकनागलोकयोस्तद्वर्णनयुक्तैव सा। धूमेति । धूम इव आचरिताः। सधूमा इत्यर्थः । तथा गन्धवाहाः सुरभिवायवो दहना इवाग्नय इव । देहं दहन्तिं किलेति संबन्धः । कुत इत्यत आह—मडिवति । कीदृशं त्वाम् । मञ्जुलध्वनन्मधुकरमित्यर्थः । अत्र ‘दलितारविन्दाः’ इति ‘मृदुताम्रद