लाम्रमङ्गुञ्जन्मधुव्रत मधौ’ इति पाठस्तु समीचीनः। तत्र दलितपदं विकसि तपरम् । एवं मृदून्यत एव ताम्राणि दलानि पत्राणि यस्य तत्संबुद्धौ । अत एव मध्विति । एतादृश हे आम्र, त्वामन्तरेण वां विना मधौ वसन्ते कोकिलस्ये त्यादि योज्यम् । तस्मात्त्वद्वियोगो मैवास्त्विति रहस्यम् । इह विषादी नायकः । करुणो रसः । गुरुरतिर्भावश्च । अप्रस्तुतप्रशंसालंकारः ।
अथैवं स नरवरकुमारोऽपि निजक्षात्रनिसर्गसिद्धशौर्यस्यापि ‘जहि शत्रु महा बाहो कामरूपं दुरासदम्’ इति श्रीमद्भगवद्गीतावचनात् , ‘कः शूरो यो ललना लोचनबाणैर्न विव्यथितः’ इति श्रीमद्विमलाचार्यचरणकमलीयप्रश्नोत्तररत्नमालते श्वान्तःशत्रुभूतकामाद्यासुरभृत्तिविजयमन्तरा वैयर्थमेवेति प्रपूर्वपद्यध्वनितयावद्भ म्यविनश्वरत्वाकर्णनजन्यनिजनिर्वेदं सिंहान्योक्त्या श्रीगुरुं प्रति द्योतयति
भिन्न महागिरिशिलाः करजाग्रजाग्र |
भिनेति । करिणां गजानामरिणा शत्रुणा सिंहेन । अत एव यद्यपि दैवेऽदृष्ट पराचि पराङखे सति करटिभ्रमेण । ‘काकेभगण्डौ करटौ’ इत्यमरात्, ‘करटः करिगण्डे स्यात्कुसुम्मे निन्द्यजीवने । काके वाध्ये दुर्द्धरूढे नवश्राद्धे' इति हैमाच करट्शब्दितगण्डपिण्डद्वन्द्वशाली करटी । गजेन्द्र इति यावत् । तद्रमेण स्थूल त्वनीलत्वादिसाधम्र्याङ्गजेन्द्रभ्रान्त्येत्यर्थः । करजेति । करजा नखास्तेषां यान्य ग्राणि तेषां ये जाप्रन्तोऽतन्द्राः अत एव उद्दामा उत्कटा एतादृशा ये शैर्यनि करा वीर्यसमूह्स्तैरित्यर्थः । महागिरिविलाः भिक्षा विदारिताः । हा इति खेदे । तथापि कुत्रापि पिशितस्य । ‘पिशितं तरसं मांसम्’ इत्यमरान्मांसस्येत्यर्थः। लेशोऽपि स्खल्पांशोऽपि नापि खलु नैव लब्ध इति योजना । तस्मादुरदृष्टपुष्टमि- थ्यादृष्टिवशादेव मयैते शत्रवः पराजिताः सर्वेऽपि । वास्तविकविजयस्तु तेभ्यः सकाशात्तेषामेवावास्तविकत्वात्कचिदपि देशे काले नैव लब्धः। अतः सर्वे परि- त्यज्यन्तःशत्रुविजयार्थमेवाहं यतिष्यामीत्याकूतम् । इह निर्विण्णो नायकः । वीरानुप्राणितः शान्तो रसः। उक्त एवालंकारः ।