पृष्ठम्:भामिनीविलासः.djvu/६८

एतत् पृष्ठम् परिष्कृतम् अस्ति
६०
भामिनीविलासे ।

 इदानीं कविनंत्युपदेशफलमन्तःशत्रुविजयार्थ सन्मार्गप्रयत्नलक्षणं धर्म तत्सि व्यर्थ दानाद्युपयोगिनं स्वस्वोचितगुणप्रावण्यैकसाध्यमर्थं च संपादयितुं शिष्यस्य संजातं विज्ञानं प्रारम्भवत्समाप्तावपि सिंहन्योक्तयैव द्योतयति--

गर्जितमाकर्य मनागद्दे मातुर्निशार्धजातोऽपि ।
हरिशिरुत्पतितुं द्रागङ्गान्याकुध्य लीयतेऽतिभृशम् ॥१०१॥

इति पण्डितराजश्रीजगन्नाथविरचिते भामिनीविलासे अन्योक्त्युळासः प्रथमः ॥

 गर्जितमिति । हीति । सिंहशिशुः पक्षे श्रीकृष्णसुतः कामः । एतेन देवता विजयवर्णनलक्षणवस्तुनिर्देशलक्षणं मङ्गलमपि प्रकरणसमाप्तौ सूचितं भवति । तथोत्तरप्रकरणप्रतिबोध्यकामपुमर्थस्य सूत्रणमपि ध्वन्यते । निशेति । निशाया रात्रेरर्ध यामद्वयं तत्परिमितं जातं ‘जातिर्जातं च ' इत्यमराजात्युपलक्षितं वयो यस्य स तथा। तादृगपीत्यर्थः । यद्वा निशाधं जातः। पक्षेऽङरितोऽपीति यावत् । मनागीषदूर्जितं मेघध्वनितम् । तस्योद्दीपनविभावत्वात् । पक्षेऽप्येवमेव । मातुर्ज नन्याः । पक्षे अमातुर्जीवस्य । अङ्क उत्सद्धं । पक्षे मनोरूपैकदेशे । द्राक्शीघ्र मुत्पतितुम् । अतिभृशमत्यन्तम् । अङ्गान्यवयवान् । मोहनादीनि साधनानि । आकुञ्जय लीयत इत्यन्वयः । निभृतम्’ इति पाठे तु निगूढामिति व्याख्येयम् । अत्र धीरो नायकः। वीरो रसः। श्लेषश्चलंकारः ॥

  इति प्रणयप्रकाशे प्रथमः प्रमोदः।