अथ श्रीगुरुस्तावदेवं नीत्युपदेशेन सप्तधनौ धर्मार्थावुपबोध्याधुनावसरप्राप्तं ससाधनं काममपि ङ्गरोल्लसेन समुपदेष्टं सोऽपि श्रीरामवत्स्खकीयायामेव वया संपादनीयो न तु श्रीकृष्णवत्परकीयायामित्यन्वयव्यतिरेकनिदर्शनद्वयपरं प्रकरण मारभमाणः प्रथमं मङ्गलत्वेनादर्शदर्शनादिवच्छूद्ररसालम्बनीभूतनायिकावदन वर्णननिपुणं तां प्रति नायकवाक्यमुपन्यस्यति
न मनागपि राहुरोषशङ्का |
न मनागपीति । इदं हि सीतां प्रति श्रीरामस्य, राधां प्रति श्रीकृष्णस्य च वाक्यं तदन्नसौन्दर्यमलौकिकतयावधार्यं प्रसादातिरेकादेव तन्मानापनोदनफल- कम् । न चैवं सारस्यानुसारेण विवेचनचतुराणां श्रीरामादिविलासपरत्वेन प्रकरणयो जनमयुक्तमेवेति सांप्रतं ‘यौवनोद्भमानितान्तशङ्किताः शीलशौर्यबलकान्तिलोभिताः। संकुचन्ति विकसन्ति राघवे जानकीनयननीरजश्रियः ॥’ इति, ‘लोभाद्वराटिकानां विक्रेतुं ततम क्रममटन्त्या । लब्धो गोपकिशौर्या मध्येरथ्यं महेन्द्रनीलमणिः ॥ इत्यादौ च तत्र तत्र तलिङ्गस्य मध्ये स्फुटतरवाकवेः खश्रेयसीवर्णने यथाकथं चित्तात्कालिकफलसंभवेऽपि पारत्रिकतदभावध्रौव्यात् । प्रत्युत ‘न यद्वचश्चित्रपदं हरेर्यशो जगत्पवित्रं प्रगृणीत कर्हिचित् । तद्वायसं तीर्थमुशन्ति मानसा न यत्र हंसा निरमन्त्युशिक्क्षयाः ॥’ इति भगवद्धणवर्णनहीनवाग्व्ययस्य निषिद्धवाच्च । न चैवं प्रथमोल्लासेऽपि शक्यं भगवदितरपरत्वेन निषेधसत्त्वम् । तस्य धर्मोपदेशध्व- नकत्वेन भगवत्परत्वस्य परम्परया संभावितत्वेन तदभावात् । न चैवमत्रापि ‘ऋ. तौ भार्यमुपयात्’ इति ब्रह्मचर्यमेव, ‘तद्यदात्रौ रत्या संयुज्यते’ इति च श्रुतेः स्खकीयाविषयकस्य कामस्यापि धर्मत्वेन तत्तौख्यमेवेति वाच्यम् । तथात्वेऽर्थका मयोः पुरुषार्थत्वराहित्यापातात्तयोस्तदानुभविकखस्य सार्वलौकिकत्वेनेष्टापत्तौ तद्वि रोधात् । उकश्रुतेस्तु परिसंख्याविधित्वेन स्वकीयेतरर्तुलान्यकालनिवृत्तावेव तात्पर्येण तदनुकूलेन्द्रियनिरोधेन ‘मनसश्चेन्द्रियाणां च ऐकायं परमं तपः । तज्ज्यायः सर्वधर्मेभ्यः स धर्मः पर उच्यते ॥' इति स्मृतेः। संपद्यमनपूरमधर्ममा भा० वि० ५ ९