पृष्ठम्:भामिनीविलासः.djvu/७१

एतत् पृष्ठम् परिष्कृतम् अस्ति
६३
शृङ्गारोल्लासः।

प्रसिद्धा ‘यवनी नवनीतकोमलाङ्गी शयनीये यदि नीयते कदाचित् । अवनीतल मेव साधु मन्ये न वनी माघवनी विनोदहेतुः ॥’ इति सुप्रसिद्धेतदीयपद्यसिद्धा यवनविशेषस्य कस्यचित्पृथ्वीपतेसैंहिता। आद्ये श्रीमद्भङ्गप्रसादासादितसूरिवरत्व तरमिन्द्रप्रस्थे पृथ्वीपतिं प्रत्युपेत्य शीतार्त इव संकुचन्ति दिवसा नैवाम्बरं श र्वरी शीघ्र मुञ्चति किं च सोऽपि हुतभुक्कोणं गतो भास्करः। त्वं चानङ्गहुताश भाजि हृदये सीमन्तिनीनां गतो नास्माकं वसनं न वा युवतयः कुत्र व्रजामो वयम् ॥ इति श्लोकेन स्खवृत्तविनिवेदनं यदनेन कविना कृतमिति वृद्धपरम्परोद न्तसुप्रसिद्धमेव । तत्र खपत्न्यभावस्य व्यततरत्वादसंभव एव । तदुध्र्व तु निर् तयवन्या एव श्रीमद्भङ्गप्रसादमदेनाङ्गीकारातक नाम धर्मपत्नीसंभवः । यतस्तद् “मेव काश्यां सर्वविप्रैर्बहिष्कारे कृते ततः पावनतायै पूर्वतपोवशीकृतां श्रीगङ्गा- मेव पीयूषलहरीनाम्ना ‘समृदं सौभाग्यं सकलवसुधायाः किमपि तत्’ इत्यादिद्विप- यशपद्यात्मना गङ्गास्तवेनाभिनवेन तां तु प्रतिश्लोकमेकैकसोपानं जलेना तिक्रामन्या तयासावभिक्षालित इत्यपि वृद्धप्रसिञ्चैव सिद्धम् । अन्ये तु ‘शात स्तरां प्रणमने विहिते गुरूणामाकथं वाचममलं भव पुत्रिणीति’ इति षष्ठपट्टी नायिकायां प्रातःकालिकश्वशुरादिगुरुकर्मकनमस्करणस्य तत्कर्तृकनिरुक्ताशीर्वादन दानस्य च, तथा ‘आगतः पतिरितीरितं जनैः शुण्वती चकितमेत्य देहलीम्’ इति चतुर्दशपदी पाणिग्रहीतृवाचकपाति शब्दप्रयोगस्य, तथा तृतीयप्रकरणे ‘धृत्वा पद स्खलनभीतिवशात्करं मे यारूढवत्यसि शिलाशकलं विवाहे’ इति पञ्चमपट्टी विवाहकशिलाधिरोहणस्य, तथा ‘खप्नान्तरेऽपि खलु भामिनि पत्युरन्यं या दृष्ट वयसि न कंचन साभिलाषम्’ इति सप्तदशपथेऽपि प्रतिपदप्रयोगस्य च स्खधर्म पत्नीलिङ्गस्य का गतिरिति भवतैव परिचिन्तनीयम् । यदि लोकप्रसिद्यादिकं सर्व मिदमलीकमेवेति कामुकैककैवल्यवादिनस्तवाग्रहस्तदापि करुणोल्लासे यथा मध्ये क्वचिदप्यालम्बनान्तरं नैवाकरोत्तथैवात्रापि कामिन्येकवर्णनेन भाव्यम् । प्रकरण- मङ्गस्योभयत्रापि तुल्यत्वात्ततु नास्त्येव । ‘यौवनोद्मनितान्तशङ्किताः’ इति, ‘अ- धिरोप्य हरस्य हन्त चापम्’ इति च पञ्चत्रिंशत्षत्रिंशत्पद्ययोः श्रीरामपरत्वात् । तथा ‘लोभाद्वराटिकानाम्’ इति चत्वारिंशत्पद्यस्य ‘रूपारुचिम्’ इत्येकचत्वारिंशत्प- यस्य च श्रीकृष्णपरखात् । एवं ‘आविर्भूता यदवधि’ इति, ‘प्रसङ्ग गोपानाम्’ इति च त्रिषष्टिचतुःषष्टिश्लोकयोरपि तस्परात्, एवं ‘व्यत्यस्तं लपति क्षणम्’ इति वैदेह्यालम्बनकरावणदुरनुरागवर्णनघटितस्यैकोनसप्ततिश्छोकस्य तात्पर्यतः सीता