पृष्ठम्:भामिनीविलासः.djvu/७२

एतत् पृष्ठम् परिष्कृतम् अस्ति
६४
भामिनीविलासे

सौन्दर्यध्वननद्वारा श्रीरामपरत्वात् । एवं ‘मथुरागमनोन्मुखे मुरारौ’ इति वृशी- तितमपद्यस्य श्रीकृष्णपरत्वात् । तथा ‘पाणौ कृतः पाणिरिलासुतायाःइति षड् शितितमपद्यस्य श्रीरामपरत्वात् । तथा ‘परपुरुषदृष्टिपातवज्ञा’ इति नवतितमपद्य स्यापि तत्परत्वात् । एवं ‘चेलाञ्चलेनाननशीतरश्मिम्’ इति सप्तनवतितमश्लोकस्य श्रीकृष्णपरत्वाच्च । यदि खल्पानीमानि वचनान्येव बहुतरवचनवण्र्यरमणीपरतया नेतव्यानीति मनुषे, तर्हि खल्पानि वेदान्तवाक्यान्येव बहुतमवाक्यप्रतिपाद्यध- र्मपरतयैव नेतुमुचितानि स्युरिति जितं पूर्वमीमांसकैः । एतेन ‘यजेदेकं कुल याथ ’ इति न्यायः प्रत्युक्तः । तस्य समानयोग्यताकस्यैकस्य समानयोग्यता कानां कुलस्य रक्षणार्थ त्याज्यत्वविधानमित्यर्थंकवात् । न चास्तु निरुक्तयवन्येव अकृते वण्र्या, पूर्वोक्तधर्मपत्नीलिङ्गानि तु यथाकथंचिदुणवृत्त्या ‘सिंहो माणवकः इत्यादिवदाहार्यज्ञानेन वा ‘चिन्तामणिरेवायं कुमारःइत्यादिवाद्योज्यानि तथेमानि श्रीरामादिपराण्यपि पद्यान्यप्राकरणिकान्यपि शास्त्रादिसंस्कारवशात्स्खपावनत्वार्थ तेन विनिर्मितानीत्येव विज्ञेयमिति वाच्यम्। अहो परीक्षकवमायुष्मतः किं वर्णनीय म्। यद्यवनीवर्णनपर्यवसन्नतायै धर्मपत्नीलिङ्गकानि भगवद्वर्णनपराणि च वाक्यानि प्रकरणमेदकान्यपि यथाकथंचिद्योजयसीति बालैरप्युपहास्यत्वापत्तेः । किं च यत्रै तस्य कवेरेवमेवाशयः स्यात्तदात्रयमेव पद्यमस्मच्छब्दघटितमनेन कविना स्वकृते रसगङ्गाधरे समुदाहृत्य यद्यख्यातं तात्पर्यतस्तत्रास्मच्छब्दः किमित्यप्रयुक्तः स्यात् । तथा च रसगङ्गाधर उत्तमोत्तमकाव्योदाहरणप्रस्तावे-यथा वा -‘गुरुमध्यगता मया नतानं निहता नीरजकोरकेण मन्दम् । दरकुण्डलताण्डवं नतभ्रूलतिकं मामव लोक्य घूर्णितासीत् ।’ अत्र घूर्णितासीदित्यनेन ‘असमीक्ष्यकारिन्, किमिदमनु चितं कृतवानसि’ इत्यर्थसंवलितोऽमर्षश्चर्वणाविश्रान्तिधामखाप्राधान्येन व्यज्य ते । तत्र ‘शब्दोऽर्थश्च गुणः’ इत्युकम् । इहोदाहरणवर्धनायकस्यैवोदाहर्तुत्वात् ‘असमीक्ष्यकारिन्, किमिदमनुचितं कृतवानसि ’ इत्यर्थसंवलितो मां प्रत्यमर्ष इत्येवोक्तं स्यात् । न स्याच्च तदा निरुक्तरीत्या श्रीरामादिपरताप्यस्य । तस्मा तदभावादपातदर्शनमात्रेण विपरीतार्थभानेऽपि वस्तुगत्येदं श्रीरामादिपरतयैव व्याख्यातुमुचितमिति प्रतिभाति । न चास्मच्छब्दवैयधिकरण्यमसांप्रतमिति वाच्यम् । सामानाधिकरण्येन संपद्यमानैकवाक्यतापेक्षयापि तस्याधिकनमरस परिपोषकत्वेन प्रकरणमेदेन चेष्टत्वात् । तथाहि । शङ्करोल्लासेऽत्र तावत्स्खध र्मपत्न्याः पूर्वोकयवन्या वानेन कविना वर्णने कृते तदुत्तरं करुणोल्लासे तत्रि