पृष्ठम्:भामिनीविलासः.djvu/७४

एतत् पृष्ठम् परिष्कृतम् अस्ति
६६
भामिनीविलासे

सौन्दर्यसंपूरितवं व्यज्यते । अहो यस्य समन्ततोऽपि स्खप्रकाशरत्नस्यैव कान्तिभर तस्य कैमुल्यसिद्धमेव यावदंशसौष्ठवमिति भावः । तत्रापि किं तारुण्यारम्भादिसम यविशेष एवैवं नेत्याह—नित्यमिति । प्रतिक्षणमित्यर्थः। एतेन कृष्णपक्षक्षयिणः शरद्राकासुधाकराढ्यतिरेकः सूचितः । तर्हि किं सर्वदैकरूपैव मन्मुखशोभा । तथा च नित्यं भावत्कदिदृक्षा तत्र नैव स्यात् । न चैकमेव तुल्यावस्थं चेद्वस्तु कश्चित्सहते पौनःपुन्येन द्रष्टुम् । उक्तं च —‘नवनवगुणरागी प्रायशो जीवलोकः इति । तत्राह--उपचीयत एवेति । संवर्धत एवेत्यन्वयः । न तु वयःपरिणामेन हसते, नापि प्रथमक्षणानुभूतवदेवाखण्डं तिष्ठति । तस्मादौ किकमेव तद्वदनलावण्य मित्याशयः । तथा चावयवान्तरं विहाय वदनस्यैवैवं वर्णनेन भाषणस्य तन्मात्रसा- ध्यात्त्वयेतःपरं मौनं झटिति परित्यज्य प्रसादपूर्वकं स्मरशरवैश्वानरपरितप्तोऽहं मणितामृतसंततस्तुषारनिकरैः परितोषणीय इति श्रीरामस्य सीतां प्रति श्रीकृष्णस्य राधां प्रति वा तद्वदनस्तवनतः प्रार्थनं द्योत्यते । तत्समर्थनार्थं हेतून्व्यनक्ति-- नेत्यादिपूर्वार्धेन । यतस्तत्र मनागपीषदपि राहुरोषशङ्कापि राहुसंज्ञकस्य प्रसिद्ध सुरविशेषस्य सैंहिकेयस्य रोषः क्रोधस्तस्य शङ्कासंभावनापि न । नैवेत्यर्थः । एतेन क्षयिखाद्यभावः सूचितः। मनाक्पदेन भावादिति भ्रान्त्यापि तत्संभावनाव्युदासः । तत्र हेतुद्वयम् । नेत्यादि । कलङ्कपाण्डिनोरभावः । यद्वा अक्षीणत्वेन राहुरोषश झानवकाशेऽपि मानावस्थादिषु रोषदोषवशादस्य भवतु कलङ्काङ्कखमित्याशङ्कयाह नेति । अत्रानुपदेन निरुकरीत्यनुसारेणापि नैवात्र कलङ्कपङ्कसंकरावकाश इत्या दयः सूच्यन्ते । गमनं गमः । कलङ्कस्यानुगमः कलङ्कानुगमः । सोऽपि नैवास्ती त्यर्थः । ननु मा भवत्वेवं तामसममर्षमालिन्यमथापि राजसं मत्सरपाण्डुरवं तु भवेदेव राकासुधाकरोदयमाकलय्येत्यत्राह-नेति । ‘हरिणः पाण्डुरः पाण्डुः इत्यमरादत्र पाण्डिमापि वास्तीत्यर्थः । तस्माद्यतोऽत्र न दोषत्रयवत्त्वं प्रकृतचन्द्र- वत्, अतस्त्वद्वदनमनुपममेवेति तात्पर्यम् । एवं च त्वया सद्यो मानं विहाय निरुतगुणकथनं यथार्थीकर्तव्यमस्मभ्यं रतिप्रदानेनेत्याकूतम् । इह खकीया पर कीया वा मुग्धा मानवती नायिका । अनुकूलो नायकः । विप्रलम्भः शृङ्गारः । आधिक्यताद्ष्यरूपकानुप्राणितो व्यतिरेकालंकारः। तदुक्तं कुवलयानन्दकारिकासु -व्यतिरेको विशेषश्चेदुपमानोपमेययोः । शैला इवोन्नताः सन्तः किंतु प्रकृति कोमलाः ॥’ इति । एवं चाद्धतोऽप्यत्र रसस्तदङ्गतया ज्ञेयः। मालभारिणीवृत्तमि-