पृष्ठम्:भामिनीविलासः.djvu/७८

एतत् पृष्ठम् परिष्कृतम् अस्ति
७७
भामिनीविलासे

औढि ढताम् । भजन्तु । स्वीकुर्वन्खित्यर्थः । तथा हरितः दिशस्तु ककुभः काष्ठा आशाश्च हरितश्च ताः' इत्यमराद्विश इत्यर्थः । मुखान्याननवत्स्खस्खाग्निमपु रोदेयानिति यावत् । उल्लासयन्तु प्रोज्वलयन्खित्यन्वयः। तस्मात्कुमुदानन्दसंदो हार्थ सकलदिङ्खविकासार्थं च त्वया निरुक्त व्यापारवत्या हृतं भाव्यमिति भावः । अत्र कुमुदहरित्पदाभ्यामहो नपुंसकानां स्त्रीणां चापि यदाननविलोकनेन यदान न्दोदयस्तदा किमु वक्तव्यं तदानननिरीक्षणेन क्षणेनैव पुंसां विलक्षणोऽसाविति व्यज्यते । इह स्वकीया परकीया वा मध्याभिसारिका नायिका । मुदितो नायकः । संभोगारम्भः कारः । आधिक्याभेदरूपकमलंकारः ।

 एवं प्रार्थनतस्तथा चरणोत्तरं निरुक्तकुमुदानन्दादिव्यवहारे जायमाने पुनर प्यतीव गर्वितायां सीतायां राधायां वा सत्यां ततः सुरतादिविलासमलभमानः श्रीरामः श्रीकृष्णो वा भूरिवारें प्रेरितामपि तद्वचनानादरेणेतः परमुपेनैव वया विधेयाधुनेत्युपदिशन्तीं तत्प्रियसखीं प्रति वक्ति--

तन्मञ्जु मन्दहसितं श्वसितानि तानि
सा वै कलङ्कविधुरा मधुराननश्रीः ।
अद्यापि मे हृदयमुन्मदयन्ति हन्त
सायंतनाम्बुजसहोदरलोचनायाः ॥ ५॥

 तन्मविति । ‘मन्दमनु’ इत्यपि पाठः । हे प्रियाप्रियसखि । सायंतनेति । क्त्रन्त तस्यां सुरतमुख निमीलितनेत्रवं ध्वन्यते । तच्च पूर्वं कदाचित्सुरतसमये समनुभूत अमित्यर्थः । यद्यपि वक्ष्यमाणहसितस्योक्तनायिकायां नैसर्गिकवेन प्रागुकसौध- मौल्याधिरोहणप्रार्थनकालीनवैकीौचित्यादुतकालिकखमयुकमेव, तथापि श्वसित सायतनपदभ्यां तात्पर्यतः ।प्रोक्तावसररीत्वसैव तत्र सुघटमानत्वाहध्युमेवोक्तव्याख्यानम् । । एतेन निरुक्तमानादिवशाद्वित्रि दिनमपि संभोगालाभप्रयोजकत्वेन कोटिकल्पायमानमेव ममेति स्वातुरत्वं व्यज्यते । एतादृशं मञ्जु ‘मनोजं मज मञुलम्' इत्यमराचारुचन्द्रिकया चेतोहरमित्यर्थः । तर्हि किं प्रहसितं प्राप्यज नवत् । नेत्याह-मन्देति । तेन तस्यामुत्तमोत्तमत्वं द्योत्यते । तथा तानि निरु ककालीनान्येच श्वसितानि पद्मिनीजातीयखेन सुरतश्रान्तिजनितसुरभितरोच्छा त्रजातानीत्यर्थः । एतदपि तस्यैव परिपोषकम् । तेनोककालिकचेन स्मितादि