पृष्ठम्:भामिनीविलासः.djvu/७९

एतत् पृष्ठम् परिष्कृतम् अस्ति
७१
शृङ्गारोल्लासः ।

ज्वलौकिकवं ध्वन्यते । तथा सा तात्कालिक्येव । वै निश्चितम् । नत्रयं गुण कथनारोपः स्खनेमविषयतयेत्याशयः। कलब्रेति । कलङ्कः कपोलनिर्मितकस्तूरीप रचनलक्षणलाग्छनविशेषः । एवं च तन्मुखस्य प्रकृत्यैव रम्यतमत्वान्मण्डनान पेक्षत्वेऽपि तस्य शास्त्रादिसंप्रदायैकपरिपालनौपयिकत्वेनादरणीयत्वं द्योत्यते । तेच विधुरा सुरतश्रमनिर्मितघर्मवशात्तदपसारणात्तच्छून्येत्यर्थः। अत एव मधुरा । ‘मधुरं रसवत्वादुप्रियेषु मधुरोऽन्यवत्' इति विश्वात्सरसेत्यर्थः । एतेन हीरका देर्निष्कलङ्कस्यापि निरुककान्तिमत्वव्युदासः सूचितः । एतादृशी याननश्रीर्मुख लक्ष्मीरित्यर्थः । केचित्तु मधुमन्देति मधुराननेति च पदैक्येनैव व्याचक्षते । तेषां सर्वथासमस्तपदात्मकवैदर्भरीतिमत्त्वस्य मधुररसपरिपोषकत्वानभिज्ञत्वमेव मूलम् । एतानि धर्मजातानि । हन्तेति खेदे । अद्यप्येतावति भूरितरकाले गते ऽपीत्यर्थः । एवं च प्रागुक्तं स्वातुरत्वमेव परिपोषितम् । मे मम हृदयं स्वान्तम् । उन्मदयन्ति स्मृतिशतैरुन्मत्तं कुर्वन्तीत्यन्वः । अतस्त्वया शीघ्र तादृग्घटन पाटवेन साभिसारणीयैव, अन्यथास्माकमुन्मत्तवाताद्यपातेन वैपरीत्यमेव संभा व्यत इति भावः । अत्र मध्या मानवती प्रकृता स्टुतिविषयीभूता तु परितृप्ताः खकीया परकीया वा नायिका । व्याकुलो नायकः । विप्रलम्भः शृङगारः । कलङ्न् केत्याधिक्यतप्यरूपक सायंतनेति लुप्तोपमा चालंकारः ॥

 एवं निवेदितनिजवृत्तया सख्या सामाद्युपायैः प्रतिबोधिता सती सीता राधा वा द्वितीयदिने प्रससादेति कविः संवर्णयति

प्रातस्तरां प्रणमने विहिते गुरूणा-
माकर्ण्य वाचममलां भव पुत्रिणीति ।
नेदीयसि प्रियतमे परमप्रमोद-
पूर्णादरं दयितया दधिरे दृगन्ताः ॥ ६ ॥

 प्रातस्तरामिति । दयितया प्रकृतनायिकया प्रातस्तरामत्युषःकाले गुरूणां श्वभूप्रभृतीनां पूज्यानाम् । प्रणमने प्रकर्षेण धर्मशास्त्राद्युकक्रमाद्यनुसरणलक्षणो- त्कर्षेण नमने नमस्करणे । विहिते विधिवत्कृते सति । अथ त्वं पुत्रिणी पुत्रवती भवेद्भयमलां निष्कपटां वाचं वाणीम् । अधुदुक्कगुणामेवाशीर्वादभारतीमित्यर्थः । आकर्यं श्रुखा । नेदीयसि निकटवर्तिनि प्रियतमे श्रीरामे श्रीकृष्णे वा । स्वप्रेमविषयीभूते कान्त इति यावत् । परमेति । परमो निरुपमः स ‘चासौ प्रमोदो