पृष्ठम्:भामिनीविलासः.djvu/८०

एतत् पृष्ठम् परिष्कृतम् अस्ति
७२
भामिनीविलासे

हर्षस्तेन पूर्णं निरवधिक आदरः सत्कारो यथा स्यात्तथेत्यर्थः । दृगन्ताः। न तु दृगन्तः। कटाक्षा इत्यर्थः । एवं च तेषां पौनःपुन्यं ध्वन्यते । दधिरे स्थापिता इति संबन्धः । न तु प्रेषिताः । तथा च पुनस्ततः स्वपाङ्गानाकर्षणाप्रतिक्षणं नवनवापाङ्गास्तत्रैव निधीयन्त इत्यर्थसमाजव्यञ्जनेन प्रसादप्राचुर्यं सूचितम् । इत्थं च ‘उत्तमानां क्षणं कोपःइति वाक्येन तथासौ झटिति सुप्रसन्ना बभूवेति भावः । ततः पुत्रस्य भवत्संभोगैकसाध्यत्वादद्याहं स्वरसत एव संपादयिष्याम्येवे त्याश्वासनं नायकं प्रति द्योत्यते । अत्र मध्या सुप्रसन्ना खकीया परकीया वा नायिका। प्रहृष्टो नायकः । संभोगलेशः शृङ्गारः। स्खभावोक्तिरलंकारः ॥

 अथ यावन्निशि तदभिसरणं निरुक्ततदीक्षणमेवानुसंदधानः श्रीरामः श्रीकृष्णो वा यामचतुष्टयविश्लेषमप्यसहिष्णुः सन्खमनस्येव विलपति-

गुरुजनभयमद्विलोकनान्तः-
समुदयदाकुलभावमावहन्त्याः ।
दरदलदरविन्दसुन्दरं हा
हरिणदृशो नयनं न विस्मरामि ॥ ७ ॥

 गुरुजनेति । अहम् । हा इति खेदे । हरिणदृशो मृगाक्ष्याः सीताया राधाया वा। गुर्विति । गुरवः श्वशुप्रभृतयो ये जना लोकास्तेभ्यो भयं तत्संनिधौ प्रियवी क्षणानौचित्यसाध्वसं तथा मद्विलोकनमनुपदोक्तमन्निरीक्षणं च ताभ्यां योऽन्तःस- मुदयन्मनस्याविर्भवन्य आकुलभावो विह्वलीभावस्तमावहन्त्या दधत्याः। अनेन लज्ञाभयलालस्यवैक्लव्यं सूचितम् । अत एव-द्रेति । किंचिदुन्मीलदम्बुजम जुलम् । त्रिभागभङ्गुरमित्यर्थः । एतादृशं नयनम् । न तु नेत्रे । तेनोतरसपोष एव । न विस्मरामि । पुनः पुनः स्मराम्येव । दृढसंस्कारैरिति योजना । तस्मात्क देन्दूदयः स्यादित्यौत्कण्ठ्यं व्यज्यते । इहेव नायिका। उत्कण्ठितो नायकः । वि प्रलम्भः शृङ्गारः। लुप्तोपमालंकारः परिकरश्च । पुष्पिताग्रावृत्तम् । उक्तं हि वृत्त रत्नाकरे-‘अयुजि नयुगरेफतो यकारो युजि च नजौ जरगाश्च पुष्पिताग्रा’ इति ॥

 ततः सायमभिसृतां सीतां श्रीरामो राधां प्रति श्रीकृष्णो वा परमप्रहृष्टः संस्त कुचावेव प्रथमं संभोगारम्भस्यालिङ्गनपूर्वकत्वेन कामशास्त्रेवा निर्णीतत्वात् ‘अष्टवर्षा भवेत्कन्या नववर्षा तु रोहिणी । दशवर्षी भवेद्भौरी अत ऊध्वे रजस्वला ॥ ’ इति स्मृतेरेकादशवर्षादिवयःक्रमेण पञ्चबाणप्रेरणयैव पञ्चविधत्वं प्राप्तत्वेन वर्णयति