वदरामलकाम्रदाडिमाना- |
बदरेति । अयि दयिते भो प्रेयसि, ते तव कुचौ वक्षोजौ क्रमेण । बदरेति । अत्रोत्तरोत्तरमहत्त्वकठिनत्वाधिक्यं ध्वन्यते । उन्नतां महतीम् । वर्तुलवाद्यनेक धनैर्गुरुतरामित्यर्थः। श्रियं शोभाम् । न हि क्रममन्तरा महत्याः श्रियो हरणम् । तेन तयोः परमनीतिनिपुणान्मन्मनोहारकखं कैमुत्यसिद्धमेवेति द्योत्यते । अप हृत्य वलाद्हीयेत्यर्थः । अधुनेदानीम् । करीति । करिणो गजस्य यः शावः पोतः। एतेन व्यामग्राह्यस्तनीखादिना शबरतरुणीखदेणुदासः । तेन पद्मिनीखें तस्यां व्यज्यते । तस्य यौ कुम्भौ कटौ तयोर्या लक्ष्मीः शोभा तस्या इत्यर्थः। हरणे यतेते यत्नं कुरुत इत्यन्वयः । एवं च लोके प्रायेण गजान्तलक्ष्म्या एव संपाद्यत्वप्रवादात्तत्संपादने निरुक्तकुचाभ्यां कृते सत्यस्यां प्रौढावस्थात्वमेव स्यात्तथा च प्रागुक्तरीतिकोऽविवेकमूलकः प्रायो मानो नैव स्यादिति किंचिदुपालम्भः खावश्योपभोग्यत्वं च सूचितम् । इह मध्यानुकूला स्वकीया परकीया वा नायिका । मुदितो नायकः । संभोगारम्भः शृङ्गारः । पर्यायविशेषोऽलंकारः । तदुक्तम् ‘पर्यायो यदि पर्यायेणैकस्यानेकसंश्रयः। पझं मुक्त्वा गता चन्द्रं कामिनीवद- नप्रभा ॥’ इति । प्रकृते तु पर्यायेणैकस्यानेकश्रीहर्तुत्वेनैवानेकसंश्रयस्तथापरश्री- हरणयतमानत्वेनापीति विशेषः ।
अथैवं कुचवर्णनोत्तरमालिङ्गनं संपाद्य क्रमागतं चुम्बनं संपादयितुं श्रीरामः सीतां प्रति श्रीकृष्णो राधां प्रति वा तत्कपोलपालिमेव तुरीयपुमर्थापादकतुरीया श्रमप्रवृत्तियोग्योदग्दक्खेनोत्प्रेक्षते--
कपोलपालिं तव तन्वि मन्ये |
कपोलेति । हे तन्वि कृशाङ्गिः । एतेन निरुतगाढालिङ्गनासहिष्णुत्वेन सौकुमा र्यातिशयः सूचितः । तथा हे लावण्यधन्यै । मौक्तिकसदृशकान्या रूयाते इत्यर्थः ।