पृष्ठम्:भामिनीविलासः.djvu/८८

एतत् पृष्ठम् परिष्कृतम् अस्ति
८०
भामिनीविलासे

जाने नैव जानामीति योजना । एतेन मौग्ध्या धैर्यानुरागा व्यज्यन्ते । ‘प्रसाराः धाराः, संशयः, इति पाठे तु तव भवन्तीत्याद्यध्याहृत्यैव योज्यम् । शेषं कार्थमेव । अत्र मध्या संबोध्या स्वकीयादिरेव नायिका । लुप्तोपमालंकारः। उक्तमेवान्यत् ।

 इत्थमुपालम्भवाक्येन पुनः कुपितायां सीतायां राधायां वा सत्य श्रीरामः श्रीकृष्णो वा तल्पनिकट एवानरुपखिन्नत्वेन प्रसुप्तः सन्खप्ने तां तथाविधां दृष्ट्वासी प्रबुद्धः खनिकटस्थितामिव मूर्तिमतीं निद्रां प्रकल्प्य निरुतनायिकासंभाषणलाभ जनकत्वेन तां स्तौति

अकरुण मृषाभाषासिन्धो विमुञ्च ममाञ्चलं
तव परिचितः स्नेहः सम्यङ्मयेत्यभिधायिनीम्।
अविरलगलद्बाष्पां तन्वीं निरस्तविभूषणां
क इह भवतीं भद्रे निद्रे विना विनिवेदयेत् ॥ २० ॥

 अकरुणेति । हे भद्रे वक्ष्यमाणनायिकासंभाषणसुखदातृत्वेन कल्याणि निद्रे , तन्वीं निसर्गकृशाङ्गीम् । प्रेयसीमित्यर्थः । एतेन प्रकृतप्रणयप्रकोपप्रकर्षप्राकट्ये प्रयुकविरहवैवश्यकार्यातिशयस्य कमुत्यसिद्धत्वं ध्वनितम् । कोऽलौकिकगुणक वेतनादिसाधारणः पदार्थः । भवतीं विना त्वामन्तरा विनिवेदयेत् । विशेषेण वक्ष्यमाणभाषणपूर्वकत्वलक्षणेन तत्रापि नितरां बहुकालम्, न तु क्षणमात्रं वेद येज्ज्ञापयेदित्यर्थः । मां प्रतीति शेषः । न कोऽप्यन्यस्त्रिभुवनेऽपीत्यार्थिकम् । ननु दृश्यत एव भवता भवश्रियाप्रायः सततमेवेति कोऽत्र मया स्खप्नतो विशेषः संपादित इत्यतस्तां विशिनष्टि-अकरुणेत्यादिना त्रिभिः। रे अकरुण । एवं च कथमेतावत्कालं मप्रसादनोपेक्षा स्वानुमानेन मन्मथव्यथाविदापि भवता भावि तेत्याक्षेपः सूच्यते । न च मया त्वत्प्रियसखीप्रार्थनशतमेव त्वत्प्रसादनार्थं कृतम् , न तूपेक्षापीत्याक्षेप्यम्। अप्रामाणिकत्वादित्याह--ऋषेति । एतेन धूर्तत्वं ध्वन्यते। सिन्धुपदेन त्रैकालिकानाश्वसनीयवचनत्वं माधुर्यगन्धविधुरत्वं च । अत एव त्वं ममाञ्चलं बलात्कारेण धृतं वसनपल्लवं विमुञ्चति संबन्धः । अहो नेहादेव मयाञ्चलो धृतः, न तु बलात्कारेणेत्यत्राह--तवेति । मया तव स्नेहः सम्य परिचित इत्यभिधायिनीं वदन्तीमिति योजना । एतेन यदि सम्यक्नेहः स्यात्तर्हि कथमेतावत्कालं विरहः सुसहः स्यादित्यादितर्कस्तर्यते । तेन परमतिः