पृष्ठम्:भामिनीविलासः.djvu/९१

एतत् पृष्ठम् परिष्कृतम् अस्ति
८३
शृङ्गारोल्लासः ।

रोषावेशान्निर्गतं यामयुग्मा-
देत्य द्वारं कंचिदाख्यां गृणन्तम् ।
मामाज्ञायैवाययौ कातराक्षी
मन्दं मन्दं मन्दिरादिन्दिरेव ॥ २४ ॥

 रोषेति । कोपवेगान्निर्गतं बहिर्गतम् । ततो यामयुग्मास्प्रहरद्वयादनन्तरम् । द्वारं तन्मन्दिरद्वारमेत्यागत्य । कांचित्तत्सखीं प्रत्याख्यां निरुक्तमद्रोषकारणक थाम् । गृणन्तम् । जल्पन्तामित्यर्थः । एतादृशं मामाज्ञायैव निरुक्तशब्दलिङ्गन ज्ञात्वैव । कातराक्षी प्रकृतमद्रोषवशाद्दीतचकितलोचना राधेयर्थः। मन्दिराद्या गारादिन्द्रिरेव लक्ष्मीरिव सर्वाशरम्या मन्दं मन्दमाययावीषद्वहिराजगामेत्यन्वयः। एतेनार्जवौत्कण्ठ्यभीतिप्रीतिप्रणयादयो द्योत्यन्ते । अत्रोत्सुका मध्या परकीया नायिका । उपमालंकारः । शेषं प्राग्वत् । शालिनीवृत्तम् । तदुक्तम्-‘शालि. न्युक्ता म्तौ तग गोऽब्धिलोकैःइति ॥

हृदये कृतशैवलानुषङ्गी
मुहुरङ्गानि यतस्ततः क्षिपन्ती ।
प्रियनामपरे मुखे सखीना-
मतिदीनामियमादधाति दृष्टिम् ॥ २५ ॥

 हृदय इति । अनुषङ्गः संबन्धः। सखीनां मुखे त्वत्प्रियः श्रीकृष्णः समागत इति प्रियनामपरे सति । इयं बुद्धिस्थत्वेन प्रत्यक्षा राधिका । तत्रेत्यध्याहारः । निरुक्तसखीमुख इत्यर्थः । अतिदीनां दृष्टिमादधाति, न त्वादधाविति योजना । तेन स्वस्य रसपारवश्याद्धेतमपि तदृत्तं वर्तगानमिव भातीति ध्वन्यते । एवं च तस्या विरहलीलोत्कर्षः प्रतिबोधितः। तेनास्य सौहार्दातिशयः सूचितः । इह विरहिणी नायिका । शेषं तु पूर्ववदेव । काव्यलिङ्गमलंकारः ।

इत एव निजालयं गतया
वनितायाः गुरुभिः समावृतायाः ।
परिवर्तितकंधरं नतभ्रु
स्मयमानं वदनाम्बुजं स्मरामि ॥ २६ ॥

 इत एवेति । पुरोवर्तिदेशत एव । वैनत्ये हेतुः--गुरुभिरिति । ‘वनितायाः इति पाठस्तु सरल एव । एतादृश्या राधायाः । परीति। वलितग्रीवम् । नतेति ।