पृष्ठम्:भामिनीविलासः.djvu/९५

एतत् पृष्ठम् परिष्कृतम् अस्ति
८९
शृङ्गारोल्लासः

लवलीं तव लीलया कपोले
कवलीकुर्वति कोमलत्विषा ।
परिपाण्डुरपुण्डरीकखण्डे
परिपेतुः परितो महाधयः ॥ ३४ ॥

 लवलीमिति । अयि सखि, तव कपोले कोमलत्विषा । एतेन रोषराहित्यं तत्काले ध्वनितम् । लवलीं लीलयैव न खायासेन कवलीकुर्वति असति सति । परीति । अतिसितावदातजलजपुञ्ज इत्यर्थः । महाधयो महामनोव्यथाः परितः सम- तात्परिपेतुः संनिपेतुरिति संबन्धः । तस्मात्किमेतत्कारणमित्युत्तरं देयम् । उत्त- रिते च श्रीरामादिविरहरूपे कारणे मया तन्मार्जकोपायः समुपदिश्येतेयाशयः । अत्र विरहिण्येव स्वकीया परकीया वा मध्या नायिका । विप्रलम्भशृङ्गारः। काव्यार्थापत्तिरलंकारः । अत्र मालभारिणीसुन्दर्योर्मलनादुपजातिविशेषो वृत्तम् ॥

 तत उत्तरानवाप्तौ सीतासमक्षमेव तत्सखीं प्रति सति निकटवर्तिनि श्रीरामे तदवलोकनसंकोचादिकं वर्णयति-

यौवनोद्भवनितान्तशङ्किताः ।
शीलशौर्यबलकान्तिलोभिताः ॥
संकुचन्ति विकसन्ति राघवे
जानकीनयननीरजश्रियः ॥ ३५ ॥

 यौवनेति । हे सखि जानकीति । सीताक्षिपद्मलक्ष्म्यो राघवे विषये । यौव- नेति । अतः संकुचन्ति। शीलेति । अतो विकसन्तीत्यन्वयः । एवं च तदनवलो- कनेऽपि तत्सिद्धवत्कारः प्रसादनोपाय एवेति भावः । इह कुपिता मध्या खकी- यैव नायिका । अनुकूलो नायकः । विप्रलम्भादिः शृङ्गारः । रूपकादिरलंकारः ॥

 एवं विनोदतोऽप्यप्रसन्नायां जानक्यां सैव सखी पूर्वोक्तामेव तत्सखीं प्रत्यस्या एव परिहासान्तरमाचरन्ती सती श्रीरामस्यानन्तकल्याणगुणादिकरणत्वं व्यनक्ति---

अधिरोप्य हरस्य हन्त चापं
परितापं प्रशमय्य बान्धवानाम् ॥
परिणेष्यति वा युवा त्विदानीं
निरपायं मिथिलाधिनाथपुत्रीम् ॥ ३६॥