पृष्ठम्:भामिनीविलासः.djvu/९८

एतत् पृष्ठम् परिष्कृतम् अस्ति
९२
भामिनीविलासे

तावदन्येद्युस्ता प्रति भेदाख्योपायान्तरमारचयन्ती तेन गोपतरुण्यन्तरप्रीतिः संपा- दितेति निवेदयति लोभादित्यादिद्वाभ्याम्-

लोभाद्वराटिकानां विक्रेतुं तक्रमक्रममटन्त्या ।
लब्धो गोपकिशोर्या मध्येरथ्यं महेन्द्रनीलमणिः ॥ ४० ॥

 लोभादिति । अयि सखि राधिके, अद्य वराटिकानां कपर्दिकानां लोभात्तक्रं विक्रेतुमक्रमं यथेच्छमटन्या भ्रमन्त्या। गोपेति । ‘कैशोरमापञ्चदशम्' इति वचना- त्वत्तुल्यवयस्त्वं तस्यामप्यस्तीति न त्वया श्रीकृष्णप्रात्याशा कार्येति द्योत्यते । मध्येरथ्यं रथ्याया गोकुलप्रतोल्या मध्य इत्यर्थः। ‘रथ्या प्रतोली विशिखा' इत्यमरः। महेन्द्रेति । इन्द्रनीलोख्यरत्नविशेषः श्रीकृष्णरूपो लब्धः प्राप्त इति योजना । त्वया वसावाप्तोऽप्यपहारित इति तत्त्वम् । अत्र परकीयैव मध्या प्रकृता खिन्ना अप्रकृता मुदिता च नायिका । तथैव नायकोऽपि । विप्रलम्भसंभोगाख्यौ शृङ्गा- रावपि । प्रहर्षणविशेषोऽलंकारः। उक्तं हि-वाञ्छितादधिकार्थस्य संसिद्धिश्च प्रहर्षणम् । दीपमुद्योजयेद्यावत्तावदभ्युदितो रविः ॥' इति । एवमक्रममित्यादौ खभावोक्तिर्महेन्द्रेति रूपकातिशयोकिरपि ॥

रूपारुचिं निरसितुं रसयन्त्या हरिमुखस्य लावण्यम् ।
शिव शिव सुदृशः सकले जाता सकलेवरे जगत्यरुचिः ॥ ४१ ॥

 रूपेति। ततस्तस्याश्चन्द्रादियावद्र्पविषयका रुचिरेव संपन्ना । तां निरसितुं हरिमुखस्य लावण्यम्, न तु सौन्दर्यम् । तेन हि लवणस्य भावो लावण्यं लवणमेव लावण्यमिति व्युत्पत्तितः श्लेषो विवक्षितः । तथा चारुचिनिरासार्थ लोके सैन्ध- वादि क्षारावादनं क्रियत इति प्रसिद्धमेव। न चात्र हरिमुखस्य लावण्यमिति रस- यन्त्या इति च मुखसंबन्धि घर्मस्य क्षारत्वाद्वाभ्यार्थध्वननापत्तिरिति सांप्रतम् । तस्य तु प्रकृते पूर्वपद्यवर्णितवराटिकालुब्धगोपकिशोरीकर्तृकतक्रविक्रयाक्रमानवश- संपन्नरथ्यान्तःकृष्णरूपमहेन्द्रनीलमणिलाभलक्षणार्थस्य परमानुकूल्यात् । अतएव गोपकिशोरीत्वेन मौग्ध्यान्मधुरारोचकनिरासे तक्रादिवद्रसयन्त्या आखादयन्त्यो । चक्षुश्चषकाभ्याममृतवत्पिबन्त्या इति यावत् । अत एव सुदृशः । शिव शिवेति खेदे। सकलेवरे खदेहसहिते सकले जगत्यप्यरुचिरेव जातेति संवन्धः । एतेन तस्या जीवन्मुक्तिरेव संपन्ना, त्वं शोकाकुलैव तु मौग्ध्येनेति ध्वनितम् । तस्मादद्यापि विचारः कार्य इति तात्पर्यम् । इह विषादनादिरलंकारः । शेषं तु पूर्ववदेव ॥