पृष्ठम्:भारतानुवर्णनम्.djvu/१००

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ध्वजे तक्षकाङ्कनात् तक्षका इति तेषां व्यपदेशः । तक्षकवंश्यानां राज्ञां दशमं राजानं नन्दं वदन्ति । तस्य मुरायां शूद्रायाम् उत्पन्नं चन्द्रगुप्तम् आहुः । अयमेव चाणक्येन नन्दपुत्रान् निहत्य राज्याधिकारे स्थापित आसीत् || - पारसीकाः – देरयवो नाम राजा पारसीक- पतिः २५८५ तमे कलिवर्षे भारतं लङयामास । अयं नाविकसेनापतिना सह सिन्धुनदम् उत्तीर्य पञ्चनद- स्य भागम् एकं स्वायत्तं कृत्वा स्वदेशं प्रतिनिवृत्तः । इतस्तेन लब्धं धनं पारसीकमहाराज्यस्य वार्षिकाय- तेस्तृतीयांशाद् अन्यूनम् आसीत् ॥ - यवनाः- - अथ द्विशतवर्षेष्वतीतेषु ग्रीसदेशे मासिदोनियाराष्ट्रे राज्याधिकारं वहन् 'अलकसान्द्रो' नाम यवनपतिः १२०००० सैनिकै: सह जैत्रयात्रायै प्रातिष्ठत । स पारसीकान् जित्वा अटकसमीपे सि- 1. Darius Hystaspes. 2. पञ्चाशीत्यधिकपञ्चशतोत्तर द्विसहस्र तमे. 3. Greeks. 4. Alexander. 5. विंशतिसहस्राधिकेन ल क्षेण । Digfized by Google