८७ 3 वर्त्मना स्वदेशं प्रस्थाप्य परिमितसैन्यः स पारसीकान् अभिप्रतस्थे । वर्षद्वयेऽतीते २७८० तमे कलिवर्षे बा बिलोननगरे समुपजातेन ज्वरेण दिष्टान्तं स जगाम । भारते स्वदेशीयान् परिष्कारान् सञ्चारयितुम् अस्य तर्ष आसीत् । यद्ययं जिगीषूणाम् अग्रणीमहा- शूरो हिन्दुस्थानं प्रावेदयत्, तदप्यवश्यम् अजेष्यत् । भारतेऽलकसान्द्रेण जितेषु नगरेषु प्रधानं पाटियालानगरम् । अलकसान्द्रानन्तरं तद्राज्ये चतुर्धा विभक्ते तत्सेनापतिः सैलूको नाम यवनो भारतादीनां पूर्व- देशानां भागी बभूव । सेलूको मगधेषु पाटलीपुत्रम् अधितिष्ठता चन्द्रगुप्तेन राज्ञा सह योद्धुं सन्नाहम् अकरोत् । चन्द्रगुप्तो ह्यलकसान्द्रे भारताद् गते शिष्टान् यवनान् निष्कासयामास । यदालकसान्द्रो भारतम् आगतः, तदा पाटलीपुत्रे राजा नन्द आसीत; से - 1. अशीत्यधिकसप्तशतोत्तरद्विसहस्रतमे 2 Selecus. Digitized by Google
पृष्ठम्:भारतानुवर्णनम्.djvu/१०२
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
![](http://upload.wikimedia.org/wikipedia/commons/thumb/2/2a/%E0%A4%AD%E0%A4%BE%E0%A4%B0%E0%A4%A4%E0%A4%BE%E0%A4%A8%E0%A5%81%E0%A4%B5%E0%A4%B0%E0%A5%8D%E0%A4%A3%E0%A4%A8%E0%A4%AE%E0%A5%8D.djvu/page102-932px-%E0%A4%AD%E0%A4%BE%E0%A4%B0%E0%A4%A4%E0%A4%BE%E0%A4%A8%E0%A5%81%E0%A4%B5%E0%A4%B0%E0%A5%8D%E0%A4%A3%E0%A4%A8%E0%A4%AE%E0%A5%8D.djvu.jpg)