पृष्ठम्:भारतानुवर्णनम्.djvu/१०९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९४ विक्रमादित्यः. शकानां राज्ञाम् अधिकारे वर्धमाने विक्रमा- दित्यो नाम राजा मालवेषूज्जयिन्यां नगर्यो प्राबल्यं प्रपेदे । - एष शूरो गुप्तनृपैर्दत्तसाहाय्यः शकान्, निश्शे- षेण जिगाय । अत एंष शकारातिरित्युच्यते । अयं बुद्ध मतेनाभिभूतं ब्राह्मणमतं प्रत्युज्जीवयामास । संस्कृ- ते चास्यासाधारणी भक्तिरासीत् । अस्य काले प्रजा नां स्वास्थ्यं धनसमृद्धिञ्चावचानां व्यवसायानाम् उत्कर्षः शास्त्राणाम् उन्मेष: साहित्यस्य परमाभ्युदयश्च सञ्जातम् । अस्य सार्वभौमस्य सभां नव विद्वद्रत्नानि भूषयाम्बभूवुः । यद् उच्यते-- ‘धन्वन्तरिक्षपणकामरसिंहशङ्क- वेतालभट्टघटकर्परकालिदासाः । bha 1. अस्य 'साहसाङ्क' इत्यपि संज्ञा (सरस्वतीकण्ठाभरणे). 2. (ज्योतिर्विदाभरणे) । Digfized by Google