पृष्ठम्:भारतानुवर्णनम्.djvu/११०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ख्यातो वराहमिहिरो नृपतेः सभायां रत्नानि वै वररुचिर्नव विक्रमस्य' || इति । एषु धन्वन्तरिर्वैद्यके निपुणः । अमरसिंहो नामलिङ्गानुशासनस्य कर्ता । नाट्येवव्याख्यातृप्व- न्यतमः श्रीशङ्कक इति यः स्मर्यते काव्यप्रकाशे, स एव कदाचिद् अयं शङ्क: स्यात् । वेतालभट्टो नीति- प्रदीपस्य कर्ता | घटकर्परो नीतिसारस्य रचयिता । कालिदासो रघुवंशादीनां काव्यानां प्रणेता । वराह- मिहिरो ज्योतिःशास्त्रे ग्रन्थकारः | वररुचिज्योतिषि को निघण्टुकारश्च । । मातृगुप्तं नाम कविं विक्रमादित्यः कश्मीरेषु राजानं चकारेति राजतरङ्गिणी वदति । सोऽयं मातृ- गुप्तः कालिदासान्न भिद्यते, नाम्नोईयोरर्थसाम्याद् इ- ति केचिद् ऊहन्ते । शौर्य, विद्या, नीतिरौदार्य प्रजावत्सलत्वम् इत्यादयो गुणा विक्रमादित्ये स्थिताः । अस्मिन् Google Digitized by